NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि

Students can easily access the NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 10 Solutions Chapter 6 सुभाषितानि

Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि Textbook Questions and Answers

प्रश्न-अभ्यासः (पृष्ठ 52-54)

प्रश्न 1.
एकपदेन उत्तरं लिखत
(क) मनुष्याणां महान् रिपुः कः?
(ख) गुणी किं वेत्ति?
(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
(घ) पशुना अपि कीदृशः गृह्यते?
(ङ) उदयसमये अस्तसमये च कः रक्तः भवति?
उत्तर:
(क) आलस्यं
(ख) गुणं
(ग) महताम् (महापुरुषाणाम्)
(घ) उदीरितोऽर्थः
(ङ) सविता (सूर्यः)

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) केन समः बन्धुः नास्ति?
(ख) वसन्तस्य गुणं कः जानाति।
(ग) बुद्धयः कीदृश्यः भवन्ति?
(घ) नराणां प्रथमः शत्रुः कः?
(ङ) सुधियः सख्यं केन सह भवति?
(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तर:
(क) उद्यमसमः बन्धुः नास्ति।
(ख) वसन्तस्य गुणं पिक: जानाति।
(ग) बुद्धयः परेगितज्ञानफलाः भवन्ति।
(घ) नराणां प्रथमः शत्रुः क्रोधः अस्ति।
(ङ) सुधियः सख्यं सुधीभिः सह भवति।
(च) अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।

More Resources for CBSE Class 10

प्रश्न 3.
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत
(क) यः …………… उद्दिश्य प्रकुप्यति तस्य …………… सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, …………… तं कथं परितोषयिष्यति?
(ख) …………… संसारे खलु ………. निरर्थकम् नास्ति । अश्वः चेत् ……….. वीरः, खरः …………… वहने (वीरः) (भवति)।
उत्तर:
(क) यः निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति।
(ख) विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः, खरः भारस्य वहने (वीरः) (भवति)।

प्रश्न 4.
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत
(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति।
(ग) परिश्रमं कुर्वाणः नरः कदापि दु:खं न प्राप्नोति।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तर:
(क) अनुक्तमप्यूहति पण्डितोजनः।
(ख) समान-शील-व्यसनेषु सख्यम्।
(ग) नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।
(घ) सम्पत्तौ च विपत्तौ च महतामेकरूपता।

प्रश्न 5.
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत
(क) गुणी गुणं जानाति। (बहुवचने)
(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
(ग) मृगाः मृगैः सह अनुव्रजन्ति। (एकवचने)
(घ) कः छायां निवारयति। (कर्मवाच्ये)
(ङ) तेन एव वह्निनः दह्यते। (कर्तृवाच्ये)
उत्तर:
(क) गुणिनः गुणं जानन्ति।
(ख) पशुना उदीरितः अर्थः गृह्यते।
(ग) मृगः मृगैः (मृगेण) सह अनुव्रजति।
(घ) केन छाया निवार्यते?
(ङ) सः एव वह्निनः शरीरं दहति।

प्रश्न 6.
(अ) सन्धिं/सन्धिविच्छेदं कुरुत
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि 1
उत्तर:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि 2
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि 3

(आ) समस्तपदं/विग्रहं लिखत
(क) उद्यमसमः — …………….
(ख) शरीरे स्थितः — …………….
(ग) निर्बलः — …………….
(घ) देहस्य विनाशनाय — …………….
(ङ) महावृक्षः — …………….
(च) समानं शीलं व्यसनं येषां तेषु — …………….
(छ) अयोग्यः — …………….
उत्तर:
(क) उद्यमेन समः
(ख) शरीरस्थः
(ग) बलेन हीनः
(घ) देहविनाशाय
(ङ) महान् च असौ वृक्षः
(च) समानशीलव्यसनेषु
(छ) न योग्यः

प्रश्न 7.
अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत
(क) प्रसीदति — …………
(ख) मूर्खः — …………
(ग) बली — …………
(घ) सुलभः — …………
(ङ) संपत्ती — …………
(च) अस्तमये — …………
(छ) सार्थकम् — …………
उत्तर:
(क) प्रसीदति — अवसीदति
(ख) मूर्खः — पण्डितः
(ग) बली — निर्बलः
(घ) सुलभः — दुर्लभः
(ङ) संपत्तौ — विपत्तौ
(च) अस्तमये — उदये
(छ) सार्थकम् — निरर्थकम्

(अ) संस्कृतेन वाक्यप्रयोगं कुरुत
(क) वायसः ……………
(ख) निमित्तम् ……………
(ग) सूर्यः ……………
(घ) पिकः ……………
(ङ) वह्निः ……………
उत्तर:
(क) वायसः – वायसः कृष्णः वर्णः भवति।
(ख) निमित्तम् – दुष्टस्य कलहस्य किमपि निमित्तम् न भवति।
(ग) सूर्यः – प्रकाशस्य स्रोतः सूर्यः एव अस्ति।
(घ) पिकः – पिकः आम्रवृक्षे स्थित्वा मधुरं गायति।
(ङ) वह्नि – ‘वह्नि’ इति पदम् अग्नेः पर्यायपदम् अस्ति।

परियोजनाकार्यम्

(क) उद्यमस्य महत्त्वं वर्णयतः पञ्चश्लोकान् लिखत।
अथवा
कापि कथा या भवद्भिः पठिता स्यात् यस्याम् उद्यमस्य महत्त्वं वर्णितम्, तां स्वभाषया लिखत।
उत्तर:
1. न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मन:।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति।।

2. षड्दोषा पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोधम् आलस्यं दीर्घसूत्रता।

3. श्रमेण लभ्यं सकलं न श्रमेण विना क्वचित्।
सरलागुलि संघर्षात् न निर्याति धनं घृतम्।।

4. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।

5. यत्रोत्साहसमारम्भो यत्रालस्य विहीनता।
नयविक्रम संयोगस्तत्र श्रीरचला घृवम्।।

अथवा
उत्तरम्-कथा-एकदा एकस्मिन् उद्याने एकः काकः पिपासितः आसीत्। सः जलं पातुम् इतस्ततः अभ्रमत्। परम् सः कुत्रापि जलं न प्राप्नोत्। अन्ते सः एकं घटम् अपश्यत्। तस्मिन् घटे स्वल्पम् जलम् आसीत्। अतः काकः जलम् पातुम् असमर्थः आसीत्। तदा काकः एकम् उपायम् अचिन्तयत्। सः पाषाणस्य खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् उपरि आगच्छत्। जलम् पीत्वा काकः प्रसन्नः अभवत्। अतएव उच्यते-परिश्रमेण एव कार्याणि सिध्यन्ति न तु मनोरथैः।

(ख) निमित्तमुद्दिश्य यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति। यदि भवता कदापि ईदृशः अनुभवः कृतः तर्हि स्वीकृतभाषया लिखत।
उत्तर:
एकदा परीक्षासमये प्रातरेव अहम् ‘क्रिक्रेट’ खेलितुम् स्वमातरम् अपृच्छम्। मम माता तु पठनाय एव आदिशवती। तदा अहम् कुपितः अभवम्। कुपितं माम् दृष्ट्वा माता उक्तवती, “पठनात् अनन्तरम् क्रीडनाय गच्छ।” एतत् श्रुत्वैव मम कोपः तु सहसैव लुप्तः अभवत्।

Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि Additional Important Questions and Answers

पठित-अवबोधनम्

I. पठित-सामाग्रयाम् आधारितम् अवबोधनकार्यम्
अधोलिखितश्लोकान् पठित्वा प्रश्नान् उत्तरत

क आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥
प्रश्ना :—-
I. एकपदेन उत्तरत
(i) मनुष्याणाम् शरीरस्थो महान् रिपुः कः?
(ii) केन समः बन्धुः न अस्ति?
उत्तर:
(i) आलस्यं
(ii) उधमेन

II. पूर्णवाक्येन उत्तरत
कम् कृत्वा नरः न अवसीदति?
उत्तर:
उद्यमेन उद्यम/परिश्रमम् कृत्वा नरः न अवसीदति।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरं चित्वा लिखत
(i) ‘मित्रम्’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) रिपुः
(ख) कृत्वा
(ग) अवसीदति
(घ) नावसीदति
उत्तर:
(क) रिपुः

(ii) ‘यं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) बन्धुः
(ख) रिपुः
(ग) उद्यम
(घ) उद्यमाय
उत्तर:
(घ) उद्यमाय

(iii) ‘दुःखम् अनुभवति’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) नावसीदति
(ख) अवसीदति
(ग) सीदति
(घ) वसीदति
उत्तर:
(ख) अवसीदति

(iv) ‘महान्’ इति पदस्य विशेष्यपदं किम्?
(क) बन्धुः
(ख) रिपुः
(ग) आलस्यं
(घ) उद्यम
उत्तर:
(ख) रिपुः

(ख) गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः॥

प्रश्नाः
I. एकपदेन उत्तरत
(i) निर्गुणः किम् न वेत्ति?
(ii) वसन्तस्य गुणं क: वेत्ति?
उत्तर:
(i) गुणं
(ii) पिकः

II. पूर्णवाक्येन उत्तरत
सिंहस्य बलं कः वेत्ति?
उत्तर:
प्रदत्तविकल्पेभ्यो उचितम् उत्तरं चित्वा लिखत

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरं चित्वा लिखत
(i) ‘काकः’ इति पदस्य समानार्थकम् पदं किम्?
(क) मूषकः
(ख) करी
(ग) वायसः
(घ) पिकः
उत्तर:
(ग) वायसः

(ii) ‘बली’ इति पदस्य विलोमपदं किम्?
(क) निर्बलः
(ख) निर्गुणः
(ग) करी
(घ) बलम्
उत्तर:
(क) निर्बलः

(iii) ‘गुणी गुणं वेत्ति’ अत्र कर्तृपदं किम्?
(क) गुणं
(ख) गुणी
(ग) वेत्ति
(घ) किमपि न
उत्तर:
(ख) गुणी

(iv) ‘सिंहस्य बलं ……… वेत्ति’ अत्र रिक्तपूर्तिः कुरुत
(क) करी
(ख) च
(ग) मूषकः
(घ) वायसः
उत्तर:
(क) करी

(ग) निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति॥

प्रश्नाः
I. एकपदेन उत्तरत
(i) नरः किम् उद्दिश्य प्रकुप्यति?
(ii) कस्य अपगमे नरः प्रसीदति?
उत्तर:
(i) निमित्तम्
(ii) निमित्तस्य

II. पूर्णवाक्येन उत्तरत
कीदृशम् नरं जनः न परितोषयिष्यति?
उत्तर:
यस्य मनः अकारणद्वेषि अस्ति तम् नरं जनः न परितोषयिष्यति।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘प्रसीदति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) यः
(ख) सः
(ग) नरः
(घ) मनः
उत्तर:
(ख) सः

(ii) ‘आरम्भे’ इति पदस्य विलोमपदं किम्?
(क) निमित्तम्
(ख) उद्दिश्य
(ग) अपगमे
(घ) तयापगमे
उत्तर:
(ग) अपगमे

(iii) ‘निश्चितम्’ इत्यर्थे किम् पदं प्रयुक्तम्? ।
(क) निमित्तम्
(ख) अकारण
(ग) जनस्तं
(घ) ध्रुवम्
उत्तर:
(घ) ध्रुवम्

(iv) ‘तस्य’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) निमित्तम्
(ख) निमित्तस्य
(ग) निमित्ताय
(घ) निमित्तः
उत्तर:
(ख) निमित्तस्य

(घ) क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।
यथास्थितः काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम् ॥

प्रश्नाः
I. एकपदेन उत्तरत
(i) क्रोधः कस्य नाशं करोति?
(ii) क्रोधः केषाम् प्रथमः शत्रुः अस्ति?
उत्तर:
(i) देहस्य
(ii) नराणाम्

II. पूर्णवाक्येन उत्तरत
शरीरस्थः क्रोधः शरीरं कथम् दहते?
उत्तर:
शरीरस्थः क्रोधः काष्ठगतः स्थितः वह्निः इव शरीरम् दहते

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत

(i) ‘अग्निः’ इति पदस्य पर्यायः कः?
(क) काष्ठः
(ख) वहिनः
(ग) देहः
(घ) दहते
उत्तर:
(ख) वहिनः

(ii) ‘शत्रुः’ इति पदस्य विशेषणपदं किम्?
(क) प्रथमः
(ख) देहस्थितः
(ग) क्रोधः
(घ) नराणाम्
उत्तर:
(क) प्रथमः

(iii) ‘सः एव वह्निः दहते शरीरम्’ अत्र क्रियापदं किम्?
(क) सः
(ख) एव
(ग) वह्निः
(घ) दहते
उत्तर:
(घ) दहते

(iv) ‘यथा काष्ठगतः ………….. वह्निः काष्ठम् दहते।’ अत्र रिक्तस्थान पूर्तिः कुरुत
(क) हि
(ख) यथा स्थितः
(ग) स्थितः
(घ) शरीरम्
उत्तर:
(ग) स्थितः

(ङ) अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः।।

प्रश्नाः
I. एकपदेन उत्तरत
(i) अनौषधम् किम् नास्ति?
(ii) अक्षरं कीदृशं नास्ति?
उत्तर:
(i) मूलम्
(ii) अमन्त्रम्

II. पूर्णवाक्येन उत्तरत
अयोग्यः कः नास्ति?
उत्तर:
अयोग्यः पुरुषः नास्ति।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘सुलभः’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) दुर्लभः
(ख) अयोग्यः
(ग) अमन्त्रम्
(घ) मूलम्
उत्तर:
(क) दुर्लभः

(ii) ‘पुरुषः’ इति पदस्य विशेषणपदं किम्?
(क) दुर्लभः
(ख) योजकः
(ग) अयोग्यः
(घ) नास्ति
उत्तर:
(ग) अयोग्यः

(iii) ‘नास्ति मूलमनौषधम् ‘ अत्र क्रियापदं किम्?
(क) अस्ति
(ख) ना
(ग) नास्ति
(घ) मूलम्
उत्तर:
(क) अस्ति

(iv) ‘अधोभागम्’ इत्यर्थे किम् पद प्रयुक्तम्?
(क) अमन्त्रम्
(ख) मूलम्
(ग) अक्षरं उत्तराणि
(घ) अनौषधम्
उत्तर:
(ख) मूलम्

II. प्रश्ननिर्माणम्

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
उत्तराणि
(i) मृगाः मृगैः सह अनुव्रजन्ति।
(ii) गुणी गुणं जानाति।
(iii) पशुः अपि उदीरितं अर्थं गृह्णाति।
(iv) अश्वः धावने वीरः भवति।
(v) महताम् सर्वदा एव एकरूपता भवति।
(vi) आलस्यं मनुष्याणाम् शरीरस्थः महान् रिपुः अस्ति।
(vii) वसन्तस्य गुणं पिकः जानाति।
(vii) सविता अस्तमये रक्तः भवति।
प्रश्ना:
(i) मृगाः कैः सह अनुव्रजन्ति?
(ii) कः गुणं जानाति?
(iii) पशु अपि कीदृशं अर्थं गृह्णाति?
(iv) अश्वः कस्मिन् वीरः भवति?
(v) केषाम् सर्वदा एव एकरूपता भवति?
(vi) आलस्यं केषाम् शरीरस्थः महान् रिपुः अस्ति?
(vii) कस्य गुणं पिकः जानाति?
(viii) सविता कदा रक्तः भवति?

III. ‘क’ अन्वयः

अधोलिखितश्लोकानाम् अन्वयेषु रिक्तस्थानपूर्तिं कुरुत

1. आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

अन्वयः- मनुष्याणाम् शरीरस्थः (i)…………………. रिपुः आलस्यम्। (ii)……………….. बन्धुः न (iii)…………….. यं कृत्वा (नरः) (iv)……..अवसीदति।
उत्तर:
मनुष्याणाम् शरीरस्थ: (i) महान् रिपुः आलस्यम् (ii) उद्यमसमः बन्धुः न (iii) अस्ति यं कृत्वा (नरः) (iv) न अवसीदति।

2. निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति।।

अन्वयः- यः निमित्तम् (i) ….. प्रकुप्यति, सः (ii). ………. अपगमे (iii)…………प्रसीदति, वै यस्य मनः तु अकारणद्वेषि तं (iv)………….. कथं परितोषयिष्यति।
उत्तर:
यः निमित्तम् (i) उद्दिश्य प्रकुप्यति, सः (ii) तस्य अपगमे (iii) ध्रुवं प्रसीदति, वै यस्य मनः तु अकारणद्वेषि तं (iv) जनं कथं परितोषयिष्यति।

3. उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः॥

अन्वयः– पशुना अपि उदीरितो (i)………..गृह्यते, हयाः नागाः च (ii)……….. वहन्ति, पण्डितः (iii) …………………. अनुक्तम् (iv) ऊहति बुद्धयः परेङ्गितज्ञानफलाः भवन्ति।
उत्तर:
पशुना अपि उदीरितो (i) अर्थः गृह्यते, हयाः नागाः च (ii) बोधिताः वहन्ति, पण्डितः (iii) जनः अनुक्तम् (iv) अपि ऊहति बुद्धयः परेङ्गितज्ञानफलाः भवन्ति।

4. अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः।।

अन्वयः- अमन्त्रम (i)………………… न अस्ति (ii)…………………. मलं नास्ति अयोग्य परुष. (iii)…………. अस्ति (iv)………….. योजकः दुर्लभः।
उत्तर:
अमन्त्रम् (i) अक्षरम् न अस्ति, (ii) अनौषधम् मूलं नास्ति, अयोग्यः पुरुषः (iii) नः अस्ति, (iv) तत्र योजकः दुर्लभः।

5. विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः।।

अन्वयः- विचित्र (i)…………………. खलु किञ्चित् (ii)……………….. नास्ति, अश्व : (iii)……….. धावने वीरः (तर्हि) (iv)…………. वहने खरः (वीरः) अस्ति।
उत्तर:
विचित्रे (i) संसारे खलु किञ्चित् (i) निरर्थकम् नास्ति, अश्वः (iii) चेत् धावने वीरः (तर्हि) (iv) भारस्य वहने खरः (वीरः) अस्ति।

III. ‘ख’ भावार्थ

अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

(1) निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं सः तस्यापगमे प्रसीदति।
भावार्थ:- नरस्य क्रोधस्य किमपि (i)……………….. भवति यदि तस्य कारणस्य एव (ii)………………. भवति तदैव (iii)………… स्वयमेव शाम्यति (iv)…….. च प्रसीदति।
मञ्जूषा- भूत्वा, निवारणम्, क्रोधः, कारणं
उत्तर:
(i) कारणं (ii) निवारणम् (iii) क्रोधः (iv) भूत्वा

(2) परेङ्गितज्ञानफला हि बुद्धयः।
भावार्थ:- उक्तः अर्थ तु (i)…………. अपि प्राप्यते परम् (ii)………… सः एव कथ्यते यः (iii) ………… अपि तथ्य (iv) ………… एव अवगच्छति
मञ्जूषा अनुक्तम्, विद्वान्, संकेतेन, पशुना
उत्तर:
(i) पशुना (ii) विद्वान् (iii) अनुक्तम् (iv) संकेतेन

(3) समान-शील-व्यसनेषु सख्यम्।
भावार्थ:– अस्य भावः अस्ति यत् मनुष्य (i)………. भवति स्वस्वभावानुसारेण (ii) ………….. जनैः (iii) ……….. तस्य (iv)………………. भवति।
मञ्जूषा – वादरो:, याढूंश:, मित्रता, सह
उत्तर:
(i) यादृशः (ii) तादृशैः (iii) सह (iv) मित्रता

(4) विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः।।
भावार्थ:- निश्चयमेव अयं (i)……………. विचित्रः वर्तते यत्र किञ्चित् अपि (ii)……….. न अस्ति। यदि (iii)………….. धावने श्रेष्ठः तर्हि गर्दभः भारवहने। यथासमयम् सर्वेषामेव (iv) …………. विद्यते।
मञ्जूषा- महत्त्वम्, संसारः, निरर्थकम्, अश्वः
उत्तर:
(i) संसारः (ii) निरर्थकम् (iii) अश्वः (iv) महत्त्वम्

IV. प्रसंगानुकूलम् उचितार्थम्

I. अधोलिखितवाक्येषु रेखाङ्कितपदानाम् कृते उचितम् अर्थ चित्वा लिखत
(i) उद्यम कृत्वा नरः न अवसीदति।
(क) दुःखम् अनुभवति
(ख) करोति
(ग) अनुभवति
(घ) अनुकरोति
उत्तर:
(क) दुःखम् अनुभवति

(ii) सः तस्य अपगमे प्रसीदति।
(क) समाप्ते
(ख) आरम्भे
(ग) मध्ये
(घ) उपस्थिते
उत्तर:
(ख) आरम्भे

(iii) सिंहस्य बलं करी वेत्ति।
(क) कर्म
(ख) गजः
(ग) उष्ट्र:
(घ) मण्डूकः
उत्तर:
(क) कर्म

(iv) पण्डितः अनुक्तम् अपि ऊहति।
(क) निर्धारयति
(ख) कथयति
(ग) वादयति
(घ) वदति
उत्तर:
(क) निर्धारयति

(v) यदि दैवात् फलं नास्ति छाया केन निवार्यते?
(क) ईश्वरस्य
(ख) ईश्वरात्
(ग) देवात्
(घ) भाग्यात्
उत्तर:
(घ) भाग्यात्

V. पर्यायपदानि/विलोमपदानि

(1) अधोलिखितपदानां पर्यायपदानि लिखत
करी, अग्निः, अश्वाः, पण्डितः
उत्तर:
करी — हस्ती, गजः।
अग्निः — वहिनः, अनलः।
अश्वाः — तुरङ्गाः, घोटकाः।
पण्डितः — विद्वान्, विशारदः।

(2) अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
गुणं, सार्थकं, निमित्तम्, ध्रुवं, योजक:

पदानि — विलोमपदानि
(i) निर्गुणं — ………….
(ii) निरर्थकम् — ………….
(iii) अनिश्चितम् — ………….
(iv) अकारणम् — ………….
(v) विभाजकः — ………….
उत्तर:
पदानि — विलोमपदानि
(i) निर्गुणं — गुणम्
(ii) निरर्थकम् — सार्थकम्
(iii) अनिश्चितम् — ध्रुवम्
(iv) अकारणम् — निमित्तम्
(v) विभाजकः — योजकः

Leave a Comment