NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम्

Students can easily access the NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम् Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 10 Solutions Chapter 4 शिशुलालनम्

Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम् Textbook Questions and Answers

प्रश्न-अभ्यासः (पृष्ठ 36-38)

प्रश्न 1.
एकपदेन उतरं लिखत
(क) कुशलवौ कम् उपसृत्य प्रणमतः?
(ख) तपोवनवासिनः कुशस्य मातरं केन नाम्ना आह्वयन्ति?
(ग) वयोऽनुरोधात् कः लालनीयः भवति?
(घ) केन सम्बन्धेन वाल्मीकिः लवकुशयोः गुरुः?
(ङ) कुत्र लवकुशयोः पितुः नाम न व्यवह्रियते?
उत्तर:
(क) रामम्
(ख) देवी
(ग) शिशुजनः
(घ) उपनयनोपदेशेन
(ङ) तपोवने

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
(ख) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
(ग) बालभावात् हिमकरः कुत्र विराजते?
(घ) कुशलवयोः वंशस्य कर्ता कः?
(ङ) कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति?
उत्तर:
(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत्?
(ख) रामः लवकुशौ स्वाङ्के उपवेशयितुम् कथयति।
(ग) बालभावात् हिमकरः पशुपति-मस्तके विराजते।
(घ) कुशलवयोः वंशस्य कर्ता सहस्रदीधितिः आसीत्।
(ङ) कुशलवयोः मातरं वाल्मीकिः ‘वधू’ इति नाम्ना आह्वयति।

प्रश्न 3.
रेखाङ्कितेषु पदेषु विभिक्तं तत्कारणं च उदाहरणानुसारं निर्दिशत —
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम् 1
उत्तर:
विभिक्तं — तत्कारणम्
(क) द्वितीया — ‘उप (उपसर्ग) + विश्’ धातु योगे
(ख) द्वितीया — ‘धिङ् योगे
(ग) द्वितीया — ‘अधि (उपसर्ग) + आस् धातु योगे
(घ) तृतीया — ‘अलम्’ योगे
(ङ) द्वितीया — ‘उप (उपसर्ग) + सृ धातु योगे

More Resources for CBSE Class 10

प्रश्न 4.
यथानिर्देशम् उत्तरत
(क) ‘जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?
(ख) ‘किं कुपिता एवं भणति उत प्रकृतिस्था’-अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्यविपरीतार्थकपदं चित्वा लिखत?
(ग) ‘विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र भवान् इति पदं कस्मै प्रयुक्तम्?
(घ) ‘तस्मादक-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?
(ङ) ‘वयसस्तु न किञ्चिदन्तरम्’-अत्र आयुषः इत्यर्थे किं किं पदं प्रयुक्तम्?
उत्तर:
(क) अहम्
(ख) कुपिता
(ग) रामाय
(घ) अध्यास्याताम्
(ङ) वयसः

प्रश्न 5.
अधोलिखितानि वाक्यानि कः कं प्रति कथयति
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम् 2
उत्तर:
कः — कम्
(क) रामः — लवकुशौ
(ख) विदूषकः — कुशम्
(ग) कुशः — रामम्
(घ) लवः — विदूषकम्
(ङ) रामः — विदूषकम्

प्रश्न 6.
मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत
शिवः शिष्टाचारः शशिः चन्द्रशेखरः सुतः इदानीम् अधुना पुत्रः सूर्यः सदाचारः निशाकरः भानुः
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम् 3
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम् 4
उत्तर:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम् 5

(अ) विशेषण-विशेष्यपदानि योजयत
यथा- विशेषण पदानि — विशेष्य पदानि
श्लाघ्या – कथा
(1) उदात्तरम्यः — (क) समुदाचारः
(2) अतिदीर्घः — (ख) स्पर्शः
(3) समरूपः — (ग) कुशलवयोः
(4) हृदयग्राही — (घ) प्रवास:
(5) कुमारयोः — (ङ) कुटुम्बवृत्तान्तः
उत्तर:
(1) उदात्तरम्यः — (क) समुदाचारः
(2) अतिदीर्घः — (ख) प्रवासः
(3) समरूपः — (ग) कुटुम्बवृत्तान्त:
(4) हृदयग्राही — (घ) स्पर्शः
(5) कुमारयोः — (ङ) कुशलवयोः

प्रश्न 7.
(क) अधोलिखितपदेषु सन्धिं कुरुत
(क) द्वयोः + अपि — ………….
(ख) द्वौ + अपि — ………….
(ग) कः + अत्र — ………….
(घ) अनभिज्ञः + अहम् — ………….
(ङ) इति + आत्मानम् — ………….
उत्तर:
(क) द्वयोः + अपि = द्वयोरपि
(ख) द्वौ + अपि = द्वावपि
(ग) कः + अत्र = कोऽत्र
(घ) अनभिज्ञः + अहम् = अनभिज्ञोऽहम्
(ङ) इति + आत्मानम् = इत्यात्मानम्

(ख) अधोलिखितपदेषु विच्छेदं कुरुत
(क) अहमप्येतयोः — ………….
(ख) वयोऽनुरोधात् — ………….
(ग) समानाभिजनौ — ………….
(घ) खल्वेतत् — ………….
उत्तर:
(क) अहमप्येतयो: – अहम् + अपि + एतयोः
(ख) वयोऽनुरोधात् – वयः + अनुरोधात्
(ग) समानाभिजनौ – समान + अभिजनौ
(घ) खल्वेतत् – खलु + एतत्

Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम् Additional Important Questions and Answers

पठित-अवबोधनम्

I. पठित-सामाग्रयाम् आधारितम् अवबोधनकार्यम् |
अधोलिखितान् नाट्यांशान् पठित्वा प्रश्नानाम् उत्तरत
(सिंहासनस्थः रामः। ततः प्रविशतः विदूषकंनोपदिश्यमानमार्गों तापसौ कुशलवी)
विदूषकः – इत इत आर्यो!
कुशलवौ – (रामम् उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य?
रामः – युष्मदर्शनात् कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव, न
पुनरतिथिजनसमुचितस्य कण्ठाश्लेषस्य। (परिष्वज्य) अहो हृदयग्राही स्पर्शः। (आसनार्धमुपवेशयति)
उभौ – राजासनं खल्वेतत्, न युक्तमध्यासितुम्।।
रामः – सव्यवधानं न चारित्रलोपाय। तस्मादङ्क-व्यवहितमध्यास्यतां सिंहासनम्। (पृष्ठ 30-31)
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम् 7

प्रश्ना:
I. एकपदेन उत्तरत
(i) विदूषकेन सह कौ प्रविशतः?
(ii) सिंहासनस्थः कः अस्ति?
उत्तर:
(i) लवकुशौ
(ii) रामः

II. पूर्णवाक्येन उत्तरत
किं चारित्रलोपाय न भवति?
उत्तर:
सव्यवधानं चारित्रलोपाय न भवति।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘भवतोः’ इति सर्वनामपदं काभ्यां प्रयुक्तम्?
(क) कुशलवाभ्याम्
(ख) कुशलवौ
(ग) रामौ
(घ) अभौ
उत्तर:
(क) कुशलवाभ्याम्

(ii) ‘पात्रम्’ इति पदस्य पर्यायपदं किम्?
(क) इतर
(ख) भाजनम्
(ग) आसनं
(घ) अङ्क
उत्तर:
(ख) भाजनम्

(iii) ‘कुशलवौ’ इति कर्तृपदस्य क्रियापदं किम्?
(क) तापसौ
(ख) मार्गों
(ग) उपदिश्यमान
(घ) प्रविशतः
उत्तर:
(घ) प्रविशतः

(iv) ‘हृदयग्राही’ इति पदस्य विशेष्यपदं किम्?
(क) अहो
(ख) स्पर्शः
(ग) कण्ठ
(घ) आश्लेषस्य
उत्तर:
(ख) स्पर्शः

(ख) रामः – एषः भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयोः सूर्यचन्द्रयोः को वा भवतोर्वंशस्य कर्ता?
लवः – भगवन् सहस्रदीधितिः।
रामः __ – कथमस्मत्समानाभिजनौ संवृत्तौ?
विदूषकः – किं द्वयोरप्येकमेव प्रतिवचनम्?
लवः – भ्रातरावावां सोदर्यो।
रामः – समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।
लवः – आवां यमलौ।
रामः – सम्प्रति युज्यते। किं नामधेयम्? (पृष्ठ 31)

प्रश्नाः
I. एकपदेन उत्तरत
(i) को यमलौ स्तः?
(ii) कुशलवयोः वंशस्य कर्ता क:?
उत्तर:
(i) लवकुशौ
(ii) भगवन् सहस्रदीधितिः

II. पूर्णवाक्येन उत्तरत
रामः लवकुशौ किम् पृच्छति?
उत्तर:

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘आवा’ इति सर्वनामपदं काभ्याम् प्रयुक्तम्?
(क) रामौ
(ख) लवकुशाभ्याम्
(ग) रामाभ्याम्
(घ) विदुषकाभ्याम्
उत्तर:
(ख) लवकुशाभ्याम्

(ii) ‘सोदयौं’ इति विशेष्यपदं किम्?
(क) भ्रातरौ
(ख) भ्राता
(ग) यमलौ
(घ) भ्रातः
उत्तर:
(क) भ्रातरौ

(iii) ‘आयोः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) युज्यते
(ख) समरूप:
(ग) वयसः
(घ) वयसस्तु
उत्तर:
(ग) वयसः

(iv) ‘प्रश्न’ इति पदस्य विपरीतार्थकम् पदम् किम्?
(क) प्रतिवचनम्
(ख) एकमेव
(ग) समरूपः
(घ) नामधेयम् उत्तराणि
उत्तर:
(क) प्रतिवचनम्

(ग) लवः – आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरणवन्दनायाम् ………………….
कुशः – अहमपि कुश इत्यात्मानं श्रावयामि।
रामः – अहो! उदात्तरम्यः समुदाचारः किं नामधेयो भवतोर्गुरुः?
लवः – ननु भगवान् वाल्मीकिः। केन सम्बन्धेन?
लवः – उपनयनोपदेशेन। (पृष्ठ 31-32)

प्रश्नाः
I. एकपदेन उत्तरत
(i) वाल्मीकिः कयोः गुरुः आसीत्?
(ii) कीदृशः समुदाचारः?
उत्तर:
(i) लवकुशयोः
(ii) उदात्तरम्यः

II. पूर्णवाक्येन उत्तरत
केन सम्बन्धेन वाल्मीकिः कुशलवयोः गुरुः आसीत्?
उत्तर:
उपनयनोपदेशेन वाल्मीकिः कुशलवयोः गुरु आसीत्।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘अहमपि ……… श्रावयामि’ अस्मिन् वाक्ये ‘श्रावयामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अहम्
(ख) अहमपि
(ग) कुशं
(घ) आत्मानम्
उत्तर:
अहम्

(ii) ‘समुदाचारः’ इति पदस्य विशेषणपदं किम्?
(क) अहो!
(ख) उदात्त
(ग) रम्यः
(घ) उदात्तरम्यः
उत्तर:
(घ) उदात्तरम्यः

(iii) ‘अहमपि’ अत्र ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) लवाय
(ख) कुशाय
(ग) रामाय
(घ) कुशः
उत्तर:
(ख) कुशाय

(iv) ‘शिष्टाचारः’ इति पदस्य पर्यायः कः?
(क) उदात्त
(ख) रम्यः
(ग) समुदाचारः
(घ) भवतोः
उत्तर:
(ग) समुदाचारः

(घ) कुशः – यद्यावयोर्बालभावजनितं किञ्चिदविनयं पश्यति तदा एवम् अधिक्षिपति-निरनुक्रोशस्य पुत्रौ, मा चापलम् इति।
विदूषकः – एतयोर्यदि पितुर्निरनुक्रोश इति नामधेयम् एतयोर्जननी तेनावमानिता निर्वासिता एतेन वचनेन दारको निर्भर्त्सयति।
रामः – (स्वगतम्) धिङ् मामेवंभूतम्। सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेवं मन्युग:रक्षरैर्निर्भद्यति। (सवाष्पमवलोकयति) (पृष्ठ 32)

प्रश्नाः
I. एकपदेन उत्तरत
(i) कयोः जननी निर्वासिता?
(ii) जननी केन अवमानिता?
उत्तर:
(i) लवकुशयोः
(ii) जनकेन (पित्रा)

II. पूर्णवाक्येन उत्तरत
जननी कदा कथम् च पुत्रौ अधिक्षिपति?
उत्तर:
जननी यदा लवकुशयोः बालभावजनितं किञ्चित् अविनयं पश्यति तदा ‘निरनुक्रोशस्य पुत्रौ’ इति कथयित्वा अधिक्षिपति।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘सा तपस्विनी’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) निर्भर्त्सयति
(ख) मन्युः
(ग) मत्कृते
(घ) अक्षरैः
उत्तर:
(क) निर्भर्त्सयति

(ii) ‘माम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) लवाय
(ख) कुशाय
(ग) रामाय
(घ) विदूषकाय
उत्तर:
(ग) रामाय

(iii) ‘वचनेन’ इति पदस्य विशेषणपदं किम्?
(क) एतेन
(ख) निर्वासिता
(ग) दारको
(घ) तेन
उत्तर:
(क) एतेन

(iv) ‘दारको’ इति पदस्य कः अर्थः?
(क) बालको
(ख) जनौ
(ग) तापसौ
(घ) पुत्रौ
उत्तर:
(घ) पुत्रौ

(ङ) लवः – तपोवनवासिनो देवीति नाम्नाहृयन्ति, भगवान् वाल्मीकिर्वधूरिति।
रामः – अपि च इतस्तावद् वयस्य! मुहूर्त्तमात्रम्।
विदूषकः – (उपसृत्य) आज्ञापयतु भवान्।
रामः – अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः?
(नेपथ्ये) इयती बेला सञ्जाता रामायणगानस्य नियोगः किमर्थं च विधीयते?
उभौ – राजन्! उपाध्यायदूतोऽस्मान् त्वरयति। (पृष्ठ 33)

प्रश्ना :
I. एकपदेन उत्तरत
(i) कुशलवयोः मातरम् वाल्मीकि: केन नाम्ना आह्वयति?
(ii) कस्य बेला सञ्जाता?
उत्तर:
(i) वधूः
(ii) रामायणगानस्य

II. पूर्णवाक्येन उत्तरत
केषाम् कुटुम्बवृत्तान्तः समरूपः अस्ति?
उत्तर:
लवकुशयोः रामस्य च कुटुम्बवृत्तान्तः समरूपः अस्ति।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘आह्वयन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) देवी
(ख) तपोवनवासिनः
(ग) नाम्ना
(घ) वासिनः
उत्तर:
(ख) तपोवनवासिनः

(ii) ‘कुमारयोः’ इति विशेष्यपदस्य विशेषणपदं किम्?
(क) अनयोः
(ख) अस्माकं
(ग) समरूपः
(घ) सर्वथा
उत्तर:
(क) अनयोः

(iii) ‘अध्यापकः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) उपाध्यायः
(ख) नियोगः
(ग) समरूपः
(घ) भगवान्
उत्तर:
(क) उपाध्यायः

(iv) ‘भवान्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) लवाय
(ख) रामाय
(ग) विदूषकाय
(घ) कुशाय
उत्तर:
(ख) रामाय

II. प्रश्ननिर्माणम्

रेखाङ्कितपदम् आधृत्य प्रश्ननिर्माणं कुरुत
(क) कुशलवौ रामं प्रणमतः।
(ख) रामः कुशलवौ अङ्कम् उपवेशयति।
(ग) हिमकरः बालभावात् शिवमस्तके शोभते।
(घ) उदात्तरम्यः समुदाचारः।
(ङ) अतिदीर्घः दारुणः च अयं प्रवास:
(च) अयम् अपूर्वः मानवानां सरस्वत्यवतारः।
प्रश्नाः
(क) को रामं प्रणमतः?
(ख) रामः कुशलवौ कुत्र उपवेशयति?
(ग) हिमकरः बालभावात् कुत्र शोभते?
(घ) कीदृशः समुदाचारः?
(ङ) अतिदीर्घः दारुण च अयं कः?
(च) अयम् अपूर्वः केषाम् सरस्वत्यवारः।

III. ‘क’ अन्वयः

अधोलिखितश्लोकयोः अन्वययोः रिक्तस्थानपूर्ति कुरुत
(1) भवति शिशुजनो वयोऽनुरोधाद्
गुणमहतामपि लालनीय एव।
व्रजति हिमकरोऽपि बालभावात्
पशुपति-मस्तक-केतकच्छदत्वम्।।

अन्वयःगुणमहताम् अपि (i)…………….. शिशुजनः लालनीयः (ii)…………… अस्ति। बालभावात् हि (iii)……. अपि पशुपति-मस्तक (iv)…………. वज्रति।
उत्तर:
गुणमहताम् अपि वयोऽनुरोधाद् शिशुजनः लालनीयः एव अस्ति। बालभावात् हि हिमकरः अपि
पशुपति-मस्तक केतकच्छदत्वम् वज्रति।

(2) भवन्तौ गायन्तौ कविरपि पुराणो व्रतनिधिर्
गिरां सन्दर्भोऽयं प्रथममवतीर्णो वसुमतीम्।
कथा चेयं श्लाघ्या सरसिरहनाभस्य नियतं,
पुनाति श्रोतारं रमयति च सोऽयं परिकरः।।

अन्वयः-भवन्तौ गायन्तौ, पुराण: (i)…….. कविः अपि, वसुमतीम् प्रथमम् (ii)……….. गिराम्
अयम् संदर्भः, (iii) … ..च इय श्लाघ्या कथा, सः च अयं (iv)………. नियतं श्रोतारं पुनाति रमयति च।
उत्तर:
भवन्तौ गायन्तौ, पुराणः व्रतनिधिः कविः अपि, वसुमतीम् प्रथमम् अवतीर्णः गिराम् अयम् संदर्भः,
सरसिरुहनाभस्य च इय श्लाघ्या कथा, सः च अयं परिकरः नियतं श्रोतारं पुनाति रमयति च।

III. ‘ख’ भावार्थः

अधोलिखितयोः कथनयो भावार्थ मञ्जूषातः समुचितपदानि चित्वा पूरयत

(क) ‘अपूर्वोऽयं मानवानां सरस्वत्यवतारः।’
मञ्जूषा- अपूर्वः, पवित्रं, गानं, सरस्वत्यः
भावार्थ:-रामायणस्य (i)……………….. श्रुत्वा रामः कथयति यत् इयम् श्लाघ्या कथा श्रोतारं प्रसीदति (ii)………………..च करोति एवं अयं (iii)……………….. ग्रन्थः मानवानाम् कृते धरातले (iv)……………….. अवतारः एव।
उत्तर:
(i) गानं
(ii) पवित्रं
(iii) अपूर्वः
(iv) सरस्वत्यः

(ख) “भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव।”
भावार्थ:-कुशलवौ रामम् उपसृत्य (i)… .. … च तस्य (ii)………….. स: (iii). पात्रम् एव यतः रामः तु स्वपुत्रौ (iv)..
पृच्छतः। तदा राम कथयति यत् किं . कर्तुम् वाञ्छति।
मञ्जूषा- आलिङ्गन, कुशलप्रश्नस्य, प्रणम्य, कुशल
उत्तर:
(i) प्रणम्य
(ii) कुशलं
(iii) कुशलप्रश्नस्य
(iv) आलिङ्गनं

IV. कथाक्रमसंयोजनम्

घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि
1. अहमत्रभवतोः जनकं नामतो वेदितुमिच्छामि।
2. तपोवनवासिनः देवीति नाम्नाह्वयन्ति, भगवान् वाल्मीकिः वधूरिति।
3. आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि।
4. अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः?
5. तस्मादक-व्यवहितमध्यास्तां सिंहासनम्।
6. क्षत्रियकुलपितामहयोः सूर्यचन्द्रयोः को वा भवतोः वंशस्य कर्ता?
7. ततः तापसौ कुशलवौ प्रविशतः।
8. भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव।
उत्तर:
1. ततः तापसौ कुशलवौ प्रविशतः।
2. भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव।
3. तस्मादक-व्यवहितमध्यास्तां सिंहासनम्।
4. क्षत्रियकुलपितामहयोः सूर्यचन्द्रयोः को वा भवतोः वंशस्य कर्ता?
5. आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि।
6. अहमत्रभवतोः जनकं नामतो वेदितुमिच्छामि।
7. तपोवनवासिनः देवीति नाम्नाह्वयन्ति, भगवान् वाल्मीकिः वधूरिति।
8. अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः।

V. प्रसङ्गानुकूलम् उचितार्थम्

I. रेखाङ्कितपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थं चित्वा लिखत
(i) सोऽयं परिकरः श्रोतारं पुनाति।
(क) पिपासा
(ख) दृष्टम्
(ग) पश्यति
(घ) पवित्रं करोति
उत्तर:
(घ) पवित्रं करोति

(ii) सरसिरुहनाभस्य इयं श्लाघ्या कथा
(क) प्रशंसनीया
(ख) शंसयति
(ग) प्रशंसनीयः
(घ) आत्मना
उत्तर:
(क) प्रशंसनीया

(iii) किं द्वयोः अपि एकमेव प्रतिवचनम्।
(क) प्रत्यक्षं
(ख) उत्तरं
(ग) प्रतिक्षणं
(घ) प्रतिदिनम्
उत्तर:
(ख) उत्तरं

(iv) किं कुपिता एव भणति।
(क) भक्ष्यति
(ख) कुद्धयति
(ग) कथयति
(घ) हसति
उत्तर:
(ग) कथयति

(v) भ्रातरौ आवाम् सोदर्यो।
(क) सहोदरौ
(ख) रमणीयौ
(ग) सुन्दरौ
(घ) उत्तमौ
उत्तर:
(क) सहोदरौ

VI. पर्यायपदानि/विलोमपदानि

प्रश्ना: 1.
अधोलिखितपदानां पर्यायपदानि लिखत
समुदाचारः, अम्बा, उत, दारको, शारदा
उत्तर:
समुदाचारः — शिष्टाचारः, सदाचारः।
अम्बा — जननी, माता।
उत — अथवा, वा।
दारको — पुत्रौः, सुतौ।
शारदा — सरस्वती, भारती।
शिष्टाचारः, सदाचारः। जननी, माता। अथवा, वा। पुत्रौः, सुतौ। सरस्वती, भारती।

प्रश्ना: 2.
अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
शत्रुः, लघुताम्, दिनकरः, प्रश्नम्, अपसृत्य

पदानि — विलोम पदानि
(i) हिमकरः — ……………
(ii) वयस्य — ……………
(iii) प्रतिवचनम् — ……………
(iv) महताम् — ……………
(v) उपसृत्य — ……………
उत्तर:
पदानि — विलोमशब्दाः
(i) हिमकरः — दिनकरः
(ii) वयस्य — शत्रुः
(iii) प्रतिवचनम् — प्रश्नम्
(iv) महताम् — लघुताम्
(v) उपसृत्य — अपसृत्य

Leave a Comment