MCQ Questions for Class 9 Sanskrit Chapter 9 सिकतासेतुः with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter 9 सिकतासेतुः with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided सिकतासेतुः Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 9 Sanskrit Chapter 9 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नवाक्येषु रेखांकित पदानाम् स्थानेषु प्रश्नवाचकपदं लिखत.

Question 1.
तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
(क) काम्
(ख) कया
(ग) कः
(घ) किम्

Answer

Answer: (ग) कः


Question 2.
तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।
(क) केन
(ख) कया
(ग) कैः
(घ) काभिः

Answer

Answer: (ग) कैः


Question 3.
पुरुषः नद्याम् सिकताभिः सेतुं निर्मातुं प्रयतते।
(क) कैः
(ख) काभिः
(ग) केन
(घ) काभ्यः

Answer

Answer: (ख) काभिः


Question 4.
तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
(क) किमर्थम्
(ख) काय
(ग) कस्यै
(घ) कस्माय

Answer

Answer: (क) किमर्थम्


Question 5.
गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।
(क) कम्
(ख) किम्
(ग) कुत्र
(घ) किमर्थम्

Answer

Answer: (ग) कुत्र


Question 6.
तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।।
(क) कम्
(ख) किम्
(ग) कस्य
(घ) कः

Answer

Answer: (ख) किम्


Question 7.
भवद्भिः उन्मीलितं मे नयनयुगलम्।
(क) कः
(ख) के
(ग) कस्य
(घ) कस्याम्

Answer

Answer: (ग) कस्य


Question 8.
केवलं तपोभिः एव ज्ञानं प्राप्यते।
(क) काभिः
(ख) कैः
(ग) केन
(घ) कया

Answer

Answer: (ख) कैः


Question 9.
सिकता जलप्रवाहे न स्थास्यति।
(क) कुत्र
(ख) कस्मिन्
(ग) के
(घ) कैः

Answer

Answer: (ख) कस्मिन्


Question 10.
पुरुषार्थेः एव लक्ष्यं प्राप्यते।
(क) कैः
(ख) केन
(ग) कथम्
(घ) कुत्र

Answer

Answer: (क) कैः


Question 11.
जगति मूर्खाणाम् अभावः न अस्ति।
(क) काम्
(ख) केषाम्
(ग) कानाम्
(घ) कासाम्

Answer

Answer: (ख) केषाम्


Question 12.
सः नद्याम् सेतुं निमार्तुम् प्रयतते।
(क) काम्
(ख) कस्मिन्
(ग) कस्याम्
(घ) काः

Answer

Answer: (ग) कस्याम्


Question 13.
महामत्स्यः मकरो वा भवेत्।
(क) किम्
(ख) कम्
(ग) केन
(घ) कः

Answer

Answer: (घ) कः


Question 14.
रामः मकरालये सेतुं बबन्ध।
(क) कस्मिन्
(ख) कुत्र
(ग) काम्
(घ) के

Answer

Answer: (क) कस्मिन्


Question 15.
तपोदत्तः विद्यां न अधीतवान्।
(क) काम्
(ख) कम्
(ग) कः
(घ) कस्मै

Answer

Answer: (क) काम्


Question 16.
विद्याहीनः नरः सभायाम् न शोभते।
(क) कः
(ख) कुत्र
(ग) कस्याम्
(घ) कीदृशः

Answer

Answer: (घ) कीदृशः


Question 17.
बाल्ये सः न अधीतवान्।
(क) कदा
(ख) केन
(ग) के
(घ) केय

Answer

Answer: (क) कदा


Question 18.
सः ज्ञातिजनैः गर्हितः अभवत्।।
(क) काभिः
(ख) कुत्र
(ग) कीदृशः
(घ) के

Answer

Answer: (ग) कीदृशः


Question 19.
दिवसे मार्गभ्रान्तः सन्ध्यां गृहमुपैति।
(क) किम्
(ख) कदा
(ग) कैः
(घ) कस्य

Answer

Answer: (ख) कदा


Question 20.
सः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽसि।।
(क) किमर्थम्
(ख) कस्य
(ग) कः
(घ) कया

Answer

Answer: (घ) कया


Question 21.
ततः तपस्यारतः तपोधनः प्रविशति।
(क) कीदृशः
(ख) कस्याम्
(ग) किम्
(घ) केषाम्

Answer

Answer: (क) कीदृशः


निम्नलिखितम् अनुच्छेदं पठित्वा आधारितानां प्रश्नानाम् उत्तराणि लिखत

(ततः प्रविशति तपस्यारतः तपोदत्तः)
तपोदत्तः – अहमस्मि तपोदत्तः। बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि। तस्मात् सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्।
(ऊर्ध्वं निःश्वस्य)
हा विधे! किम् इदं मया कृतम्? कीदृशी दुर्बुद्धि आसीत् तदा। एतदपि न चिन्तितं यत्
परिधानैरलङ्कारैर्भूषितोऽपि न शोभते।
नरो निर्मणिभोगीव सभायां यदि वा गृहे॥1॥
(किञ्चिद् विमृश्य)
भवतु, किम् एतेन? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।

Question 1.
अहम् कः अस्मि?

Answer

Answer: तपोधनः


Question 2.
तस्य बुद्धिः कीदृशी आसीत्?

Answer

Answer: दुर्बुद्धिः


Question 3.
कीदृशः नरः न शोभते?

Answer

Answer: परिधानैः अलङ्कारैः भूषितः अपि अपठितः नरः न शोभते।


Question 4.
बाल्ये सः किम् अकरोत्?

Answer

Answer: बाल्ये सः पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवान्।


Question 5.
अत्र ‘आगच्छति’ इति क्रियापदस्य पर्यायपदं गद्यांशे किम् प्रयुक्तम्?

Answer

Answer: उपैति


Question 6.
‘सुबुद्धिः’ इति पदस्य विपर्ययपदं अस्मिन् गद्यांशे किम् प्रयुक्तम्?

Answer

Answer: दुर्बुद्धिः


Question 7.
‘शोभते’ इति क्रियापदस्य कर्तृपदम् किम्?

Answer

Answer: नरः


Question 8.
‘अधः’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: ऊर्ध्वः


(जलोच्छलनध्वनिः श्रूयते)
तपोदत्तः – अये कुतोऽयं कल्लोलोच्छलनध्वनिः? महामत्स्यो मकरो वा भवेत्। पश्यामि तावत्।
(पुरुषमेकं सिकताभिः सेतुनिर्माण-प्रयासं कुर्वाणं दृष्ट्वा सहासम्)
हन्त! नास्त्यभावो जगति मूर्खाणाम्! तीव्रप्रवाहायां नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते!
(साट्टहासं पार्श्वमुपेत्य)
भो महाशय! किमिदं विधीयते! अलमलं तव श्रमेण। पश्य,
रामो बबन्ध यं सेतुं शिलाभिर्मकरालये।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्॥2॥
चिन्तय तावत्। सिकताभिः क्वचित्सेतुः कर्तुं युज्यते?

Question 1.
एकः पुरुषः काभिः सेतुनिर्माणप्रयासं करोति स्म?

Answer

Answer: सिकताभिः


Question 2.
जगति केषाम् अभावः न अस्ति?

Answer

Answer: मूर्खाणाम्


Question 3.
मूर्खाणाम् कुत्र अभावः नास्ति?

Answer

Answer: जगति


Question 4.
कल्लोलोच्छलनस्य ध्वनिं श्रुत्वा तपोधनः किम् अचिन्तयत्?

Answer

Answer: कल्लोलोच्छलनध्वनिं श्रुत्वा तपोधनः अचिन्तयत् यत् तत्र महामत्स्यो मकरो वा भवेत्।


Question 5.
तपोदत्तः किमर्थम् हसति?

Answer

Answer: पुरुषमेकं सिकताभिः सेतुनिर्माण-प्रयासं कुर्वाणं दृष्ट्वा तपोदत्रः हसति।


Question 6.
‘संसारे’ पदस्य पर्यायपदं गद्यांशे किम् अस्ति?

Answer

Answer: जगति


Question 7.
अत्र ‘प्रयतते’ इति क्रियापदस्य कर्ता कः?

Answer

Answer: मूढः


Question 8.
‘मूढः’ इति पदस्य विशेषणपदं किम् अत्र लिखितम्?

Answer

Answer: अयं


Question 9.
‘विदुषाम्’ इति पदस्य विपरीतार्थकं पदं किम् अनुच्छेदे प्रयुक्तम्?

Answer

Answer: मूर्खाणाम्


पुरुषः – भोस्तपस्विन्! कथं माम् अवरोधं करोषि। प्रयत्नेन किं न सिद्धं भवति? कावश्यकता शिलानाम्? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया।
तपोदत्तः – आश्चर्यम् किम् सिकताभिरेव सेतुं करिष्यसि? सिकता जलप्रवाहे स्थास्यन्ति किम्? भवता चिन्तितं न वा?
पुरुषः – (सोत्प्रासम्) चिन्तितं चिन्ततम्। सम्यक् चिन्तितम्। नाहं सोपानसहायतया अधिरोढं विश्वसिमि समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि।
तपोदत्तः – (सव्यङ्ग्यम्)
साधु साधु! आञ्जनेयमप्यतिक्रामसि!
पुरुषः – (सविमर्शम्)
कोऽत्र सन्देहः? किञ्च,
विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम॥3॥

Question 1.
सर्वं कार्यं केन सिद्धं भवति?

Answer

Answer: प्रयत्नेन


Question 2.
सिकता कुत्र न स्थास्यति?

Answer

Answer: जलप्रवाहे


Question 3.
कः आश्चर्यम् करोति?

Answer

Answer: तपोदत्तः


Question 4.
स्वसंकल्पदृढतया सः किम् करिष्यति?

Answer

Answer: स्वसंकल्पदृढ़तया सः सिकताभिरेव सेतु निर्माणं करिष्यति।


Question 5.
पुरुषः सविमर्शम् किम् कथयंति?

Answer

Answer: पुरुषः सविमर्शम् कथयति-“लिपि, अक्षर ज्ञानं विना केवलं तपोभिः एव यदि ते विद्या वशे स्युः तथा मम एषः सेतुः अपि स्युः।”


Question 6.
अनुच्छेदे ‘सेतुरेष’ अत्र विशेषणपदं किम्?

Answer

Answer: एष


Question 7.
‘सफलम्’ इति अर्थे किम् पदं अत्र प्रयुक्तम्?

Answer

Answer: सिद्धम्


Question 8.
अत्र ‘चिन्तितं’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: भवता


Question 9.
अस्मिन् अनुच्छेदे ‘उपहासपूर्वकम्’ पदस्य कः पर्यायः आगतः?

Answer

Answer: सोत्प्रासम्


तपोदत्तः – (सवैलक्ष्यम् आत्मगतम्)
अये! मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति! नूनं सत्यमत्र पश्यामि। अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि! तदियं भगवत्याः शारदाया अवमानना। गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः। पुरुषाथैरेव लक्ष्यं प्राप्यते।
(प्रकाशम्)
भो नरोत्तम! नाऽहं जाने यत् कोऽस्ति भवान्। परन्तु भवद्भिः उन्मीलितं मे नयनयुगलम्। तपोमात्रेण विद्यामवाप्तुं प्रयतमान: अहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि। तदिदानी विद्याध्ययनाय गुरुकुलमेव गच्छमि।
(सप्रणामं गच्छति)

Question 1.
नरः किं विना वैदुष्यम् न प्राप्नोति?

Answer

Answer: अक्षरज्ञानं


Question 2.
तपोदत्तः विद्याध्ययनार्थं कुत्र गच्छति?

Answer

Answer: गुरुकुलम्


Question 3.
तपोदत्तः कस्याः अवमाननां करोति?

Answer

Answer: शारदायाः


Question 4.
तपोमात्रेण विद्यां प्राप्तुं तपोधनस्य प्रयासः कीदृशः आसीत्?

Answer

Answer: तपोमात्रेण विद्यामवाप्तुं तपोधनस्य प्रयासः सिकताभिरेव सेतुनिर्माणप्रयासः आसीत्।


Question 5.
तपोदत्रः किं निश्चयं करोति?

Answer

Answer: तपोदत्तः निश्चयं करोति यत् सः इदानीम् विद्याध्ययनाय गुरुकुलमेव गमिष्यति।


Question 6.
असत्यम्’ इति पदस्य विपर्ययपदं किम् अत्र प्रयुक्तम्?

Answer

Answer: सत्यम्


Question 7.
अत्र अनुच्छेदे ‘अभिलषामि’ इति क्रियापदस्य कर्तृपदं किं?

Answer

Answer: अहम् (तपोदत्तः)


Question 8.
‘भगवत्याः’ इति विशेषणपदस्य विशेष्यपदं किम् अस्ति अत्र?

Answer

Answer: शारदायाः


Question 9.
‘आंगच्छामि’ इति पदस्य विपर्ययपदं किम् अत्र प्रयुक्तम्?

Answer

Answer: गच्छामि।


अधोलिखितस्य श्लोकस्य अन्वये रिक्तस्थानानां पूर्तिः समुचित पदैः कुरुत

परिधानैरलङ्कारैर्भूषितोऽपि, न शोभते।
नरो निर्माणिभोगीव सभायां यदि वा गृहे॥

अन्वयः- परिधानैः (i) …………….. अपि (ii) …………….. (विद्याहीनः) नरः (iii) …………….. वा सभायाम् (iv) …………….. न शोभते।
मञ्जूषा- अलङ्कारैः, निर्मणिभोगीव, गृहे, भूषितः

Answer

Answer:
(i) अलङ्कारैः
(ii) भूषितः
(iii) गृहे
(iv) निर्माणिभोगीव।


रामो बबन्ध यं सेतुं शिलाभिर्मकराले।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्॥

अन्वयः- रामः (i) ……………. शिलाभिः (ii) ……………. सेतुं बबन्ध तं (सेतुं) (iii) …………. विदधद् (iv) …………. अतिरामताम् यासि।
मञ्जूषा- बालुकाभिः, यं, मकरालये, त्वम्

Answer

Answer:
(i) मकरालये
(ii) यं
(iii) बालुकाभिः
(iv) त्वम्।


विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम्॥

अन्वयः- लिपि (i) ……………… ज्ञानं विना केवलं (ii) ……………. एव (iii) ……………… विद्या (iv) ……………….. स्युः तथा मम एष सेतुः (अपि स्युः)।
मञ्जूषा- यदि, तपोभिः, वशे, अक्षर

Answer

Answer:
(i) अक्षर
(ii) तपोभिः
(iii) यदि
(iv) वशे


अधोलिखितस्य श्लोकस्य भावार्थ रिक्तस्थानानां पूर्तिः मञ्जूषायाः समुचितैः पदैः कुरुत

परिधानैरलङ्कारैर्भूषितोऽपि, न शोभते।
नरो निर्माणिभोगीव सभायां यदि वा गृहे॥

भावार्थ:- अस्य भावोऽस्ति यत् मानवजीवने विद्यायाः अतीव महत्त्वम् अस्ति। यथा (i) …………… मणिं विना कदापि न शोभां प्राप्नोति तथैव सुन्दरैः (ii) ………………… आभूषणैः वा (iii) …………….. पुरुषः अपि कदापि विद्यां विना (iv) ……………. शोभां न प्राप्नोति।
मञ्जूषा- वस्त्रैः, सभायां, सुसज्जितः, सर्पः

Answer

Answer:
(i) सर्पः
(ii) वस्त्रैः
(iii) सुसज्जितः
(iv) सभायां


रामो बबन्ध यं सेतुं शिलाभिर्मकरालये।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्॥

भावार्थ:- अर्थात् (i) ………….. श्रीरामः त्रेतायुगे पाषाणशिलाभिः यं. (ii) …………… रचितवान्। त्वम् अद्य (iii) ……………… एव तत् कार्यं कृत्वा तस्य प्रयत्नम् (iv) …………… करोषि।
मञ्जूषा- सेतुं, अतिक्रमणं, भगवान्, बालुकाभिः

Answer

Answer:
(i) भगवान्
(ii) सेतुं
(iii) बालुकाभिः
(iv) अतिक्रमणं


विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम्॥

भावार्थ:- अस्मिन् संसारे यदि (i) ……………. अक्षरज्ञानं विना केवलं (ii) …………… एव विद्या प्राप्तुं (iii) …तदा मम् अपि (iv) ……………….. एव एषः सेतुः अपि भवितुं कथं न शक्नोति?
मञ्जूषा- सिक्ताभिः, लिपिज्ञानं, शक्नोति, तपोभिः

Answer

Answer:
(i) लिपिज्ञानं
(ii) तपोभिः
(iii) शक्नोति
(iv) सिक्ताभिः


निम्नवाक्यानि घटनाक्रमानुसारं पुनर्लिखत

1. (i) तस्मै ज्ञानदातुम् इन्द्रः वेशं परिवर्त्य तस्य समीपम् अगच्छत्।
(ii) इदं श्रुत्वा तपोदत्तः विद्यां प्राप्तुं गुरुकुलम् अगच्छत्।
(iii) तदा तपोदत्तः इदं दृष्ट्वा तस्य उपहासं करोति।
(iv) एकः तपोदत्तः तपस्यारतः बालकः आसीत्।
(v) सः कथयति-भोः! कथमेतत् व्यर्थमेव सिक्ताभिः सेतुनिर्माणं करोषि।
(vi) सः पुरुषः गंगायाः सिक्ताभिः सेतुनिर्माणम् आरभत।
(vii) सः विद्याप्राप्त्यै अध्ययनं न कृत्वा केवलं तपः एव अकरोत्।
(viii) इन्द्रः अवदत् यदि तपसा एव त्वं विद्यां प्राप्स्यसि तर्हि अहमपि सिक्ताभिः सेतुनिर्माणं करिष्यामि।

Answer

Answer:
(i) एकः तपोदत्तः तपस्यारतः बालकः आसीत्।
(ii) सः विद्याप्राप्त्यै अध्ययनं न कृत्वा केवलं तपः एव अकरोत्।
(iii) तस्मै ज्ञानदातुम् इन्द्रः वशं परिवर्त्य तस्य समीपम् अगच्छत्।
(iv) सः पुरुषः गंगायाः सिक्ताभिः सेतुनिर्माणम् आरभत।
(v) तदा तपोदत्तः इदं दृष्ट्वा तस्य उपहासं करोति।
(vi) सः कथयति-भोः! कथमेतत् व्यर्थमेव सिक्ताभिः सेतुनिर्माणं करोषि।
(vii) इन्द्रः अवदत् यदि तपसा एव त्वं विद्यां प्राप्स्यसि तर्हि अहमपि सिक्ताभिः सेतुनिर्माणं करिष्यामि।
(viii) इदं श्रुत्वा तपोदत्तः विद्यां प्राप्तुं गुरुकुलम् अगच्छत्।


2. (i) इदं दृष्ट्वा तस्मै ज्ञानं दातुम् देवराजः इन्द्रः वेशं परिवर्त्य तत्रागच्छत्।
(ii) इदं श्रुत्वा इन्द्रः अवदत् यथा त्वं पठनं, लेखनं लिपि अभ्यासं च विना विद्यां प्राप्तुम् इच्छसि।
(iii) सः गंगायाः सिक्ताभिः तस्य समक्षे सेतुं निर्मातुम् आरभत।
(iv) परं वारं-वारं जले सेतुसिक्ता प्रवहत्।
(v) एकः कश्चित् तपोदत्तः नामक : बालक : विद्यां प्राप्तुं तपः करोति स्म।
(vi) ‘तथैव अहमपि सिक्ताभिः सेतुनिर्माणं करिष्यामि’। इदं श्रुत्वा सः पठनाय गुरुकुलम् अगच्छत्।
(vii) इदं दृष्ट्वा तपोदत्तः अहसत् अवदत् च-सिक्ताभिः सेतुनिर्माणं कथं भविष्यति?
(viii) परं तस्मै कापि सफलता न अमिलत्।

Answer

Answer:
(i) एकः कश्चित् तपोदत्तः नामकः बालकः विद्यां प्राप्तुं तपः करोति स्म।
(ii) परं तस्मै कापि सफलता न अमिलत्।
(iii) इदं दृष्ट्वा तस्मै ज्ञानं दातुम् देवराजः इन्द्रः वेशं परिवर्त्य तत्रागच्छत्।
(iv) सः गंगायाः सिक्ताभिः तस्य समक्षे सेतुं निर्मातुम् आरभत।
(v) परं वारं-वारं जले सेतुसिक्ता प्रवहत्।
(vi) इदं दृष्ट्वा तपोदत्तः अहसत् अवदत् च-सिक्ताभिः सेतुनिर्माणं कथं भविष्यति?
(vii) इद्रं श्रुत्वा इन्द्रः अवदत् यथा त्वं पठनं, लेखनं लिपि अभ्यासं च विना विद्यां प्राप्तुम् इच्छसि।
(viii) तथैव अहमपि सिक्ताभिः सेतुनिर्माणं करिष्यामि’। इदं श्रुत्वा सः पठनाय गुरुकुलम् अगच्छत्।


निम्नपदानां पर्यायपदानि चित्वा लिखत

Question 1.
बाल्ये पितृचरणैः क्लेश्यमानः विद्यांनाधीतवान्।
(क) पित्रे
(ख) तातपादैः
(ग) पितुः
(घ) पितरि

Answer

Answer: (ख) तातपादैः


Question 2.
तपोदत्तः सर्वैः कुटम्बिभिः मित्रैः च गर्हितः अभवत्।।
(क) निन्दितः
(ख) प्रशंसितः
(ग) प्रसन्नः
(घ) दुःखितः

Answer

Answer: (क) निन्दितः


Question 3.
यदि गृहमुपैति तदपि वरम्
(क) अश्रेष्ठम्
(ख) गर्हितम्
(ग) श्रेष्ठम्
(घ) न उत्तमम्

Answer

Answer: (ग) श्रेष्ठम्


Question 4.
हन्त! नास्त्यभावो जगति मूर्खाणाम्।
(क) शरीरे
(ख) संसारे
(ग) मुखे
(घ) मनसि

Answer

Answer: (ख) संसारे


Question 5.
भो महाशय! किमिदं विधीयते?
(क) करोति
(ख) करोमि
(ग) क्रियन्ते
(घ) क्रियते

Answer

Answer: (घ) क्रियते


Question 6.
कथं माम् उपरुणत्सि?
(क) अवरुणद्धि
(ख) अवरोधं करोषि
(ग) प्रोत्साहनं करोषि
(घ) हतोत्साहितं करोषि

Answer

Answer: (ख) अवरोधं करोषि


Question 7.
आञ्जनेयम् अपि अतिक्रामसि।
(क) ईश्वरम्
(ख) रामम्
(ग) हनुमन्तम्
(घ) लक्ष्मणम्

Answer

Answer: (ग) हनुमन्तम्


Question 8.
यदि विद्या वशे स्युः।।
(क) लेखम्
(ख) लेखनम्
(ग) पठनम्
(घ) धावनम्

Answer

Answer: (ग) पठनम्


Question 9.
अक्षरज्ञानं विना एव वैदुष्यम् आवाप्तुम् अभिलषामि।
(क) विद्वत्त्वम्
(ख) कार्यम्
(ग) शक्तिम्
(घ) भ्रमम्

Answer

Answer: (क) विद्वत्त्वम्


Question 10.
तदियं भगवत्याः शारदायाः अवमानना।
(क) देव्याः
(ख) सरस्वत्याः
(ग) शक्तिम्
(घ) दुर्गायाः

Answer

Answer: (ख) सरस्वत्याः


Question 11.
भवद्भिः उन्मीलितं मे नयनयुगलम्।
(क) मयि
(ख) माम्
(ग) मया
(घ) मम

Answer

Answer: (घ) मम


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः
(i) सर्वैः – सेतुम्
(ii) तीव्रप्रवाहमानायाम् – अयम्
(iii) तपस्यारतः – पुरुषम्
(iv) यम् – सेतुः
(v) मूढः – नरः
(vi) एकम् – शारदायाः
(vii) एषः – अहम्
(viii) उत्तमः – तपोदत्तः
(ix) भगवत्याः – नद्याम्
(x) प्रयतमानः – कुटुम्बिभिः

Answer

Answer:
(i) कुटुम्बिभिः
(ii) नद्याम्
(iii) तपोदत्तः
(iv) सेतुम्
(v) अयम्
(vi) पुरुषम्
(vii) सेतुः
(viii) नरः
(ix) शारदायाः
(x) अहम्


निम्नपदायां विपर्ययपदानि चिनुतपदानि

विपर्ययाः – पदानि
(i) बाल्ये – अवरम्
(ii) विद्याम् – सुबुद्धिः
(iii) गर्हितः – विदुषाम्
(iv) दुर्बुद्धिः – मार्गयुक्तः
(v) वरम् – विद्वान्
(vi) मार्गभ्रान्तः – प्रियः
(vii) मूर्खाणाम् – असिद्धम्
(viii) मूढः – आलस्यैः
(ix) पार्श्वम् – अवरोढुम्
(x) सिद्धम् – प्रकाशम्
(xi) अधिरोढ़म् – अक्षमः
(xii) क्षमः – यौवने
(xiii) आत्मगतम् – सम्मानम्
(xiv) अवमानना – अविद्याम्
(xv) पुरुषार्थः – दूरम्

Answer

Answer:
(i) यौवने
(ii) अविद्याम्
(iii) प्रियः
(iv) सुबुद्धिः
(v) अवरम्
(vi) मार्गयुक्तः
(vii) विदुषाम्
(viii) विद्वान्
(ix) दूरम्
(x) असिद्धम्
(xi) अवरोढुम्
(xii) अक्षमः
(xiii) प्रकाशम्
(xiv) सम्मानम्
(xv) आलस्यैः


We hope the given NCERT MCQ Questions for Class 9 Sanskrit Chapter 9 सिकतासेतुः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 9 Sanskrit सिकतासेतुः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.


Leave a Comment