MCQ Questions for Class 9 Sanskrit Chapter 7 प्रत्यभिज्ञानम् with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter 7 प्रत्यभिज्ञानम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided प्रत्यभिज्ञानम् Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 9 Sanskrit Chapter 7 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नवाक्येषु रेखांकित पदानाम् स्थानेषु प्रश्नवाचक पदं लिखत

Question 1.
सौभद्रो ग्रहणं गतः।
(क) कः
(ख) किम्
(ग) कस्य
(घ) केन

Answer

Answer: (क) कः


Question 2.
किमत्र विराटनगरे नीचैः अपि नामभिः अभिभाष्यन्ते।
(क) के
(ख) कुत्र
(ग) कस्मिन्
(घ) कदा

Answer

Answer: (ख) कुत्र


Question 3.
क्षत्रियवंशोभूताः नीचैः अपि नामभिः।
(क) केषाम्
(ख) कीदृशाः
(ग) काः
(घ) के

Answer

Answer: (ख) कीदृशाः


Question 4.
अहम् शत्रुवशं गतः।
(क) कम्
(ख) कः
(ग) किम्
(घ) कुत्र

Answer

Answer: (ख) कः


Question 5.
सुखमास्ते ते जननी।
(क) कस्य
(ख) कम्
(ग) के
(घ) कया

Answer

Answer: (क) कस्य


Question 6.
अलं स्वच्छन्दप्रलापेन।
(क) कथम्
(ख) कदा
(ग) केन
(घ) कया

Answer

Answer: (ग) केन


Question 7.
रणभूमौ हतेषु शरान् पश्य।
(क) को
(ख) कुत्र
(ग) कस्मै
(घ) कदा

Answer

Answer: (ख) कुत्र


Question 8.
तेन पदातिना गृहीतः।
(क) कया
(ख) केन
(ग) कुत्र
(घ) कम्

Answer

Answer: (ख) केन


Question 9.
अशस्त्रेषु मादृशाः न प्रहरन्ति।
(क) केषाम्
(ख) कीदृशाः
(ग) कथम्
(घ) कस्य

Answer

Answer: (ख) कीदृशाः


Question 10.
मां वञ्चयित्वा गृहीतवान्।
(क) काम्
(ख) कथम्
(ग) क्त्वा
(घ) केन

Answer

Answer: (ख) कथम्


Question 11.
उत्सिक्तः खलु अयं क्षत्रियकुमारः
(क) कीदृशः
(ख) कम्
(ग) कः
(घ) किम्

Answer

Answer: (ग) कः


Question 12.
उत्सिक्तः खलु अयं क्षत्रियकुमारः।
(क) कः
(ख) कम्
(ग) किम्
(घ) कीदृशः

Answer

Answer: (घ) कीदृशः


Question 13.
मम तु भुजौ एव प्रहरणम्।
(क) कम्
(ख) कस्य
(ग) केन
(घ) किम्

Answer

Answer: (ख) कस्य


Question 14.
मम तु भुजौ एव प्रहरणम्
(क) किम्
(ख) कम्
(ग) केन
(घ) कस्य

Answer

Answer: (क) किम्


Question 15.
भीमः बाहुभ्याम् एव नेष्यति।
(क) काभ्याम्
(ख) कैः
(ग) केन
(घ) कः

Answer

Answer: (क) काभ्याम्


Question 16.
वयं च परिरक्षिताः।
(क) कीदृशाः
(ख) के
(ग) कम्
(घ) कस्य

Answer

Answer: (ख) के


Question 17.
अयमेव अस्ति धनुर्धरः धनञ्जयः।
(क) कः
(ख) कीदृशः
(ग) कस्य
(घ) कम्

Answer

Answer: (ख) कीदृशः


Question 18.
क्रमेण सर्वान् प्रणमति।
(क) काभ्याम्
(ख) कम्
(ग) कान्
(घ) को

Answer

Answer: (ग) कान्


Question 19.
सर्वे च तम् आलिङ्गन्ति।
(क) काम्
(ख) कम्
(ग) केन
(घ) कस्य

Answer

Answer: (ख) कम्


Question 20.
वयं च परिरक्षिताः
(क) के
(ख) कीदृशाः
(ग) कीदृशी
(घ) कीदृशः

Answer

Answer: (ख) कीदृशाः


Question 21.
अयमेवस्ति धनुर्धरः धनञ्जयः
(क) कीदृशः
(ख) किम्
(ग) कः
(घ) कम्

Answer

Answer: (ग) कः


Question 22.
अभिमन्युः क्रमेण सर्वान् प्रणमति।।
(क) कान्
(ख) किम्
(ग) कम्
(घ) कः

Answer

Answer: (क) कान्


गद्यांशम् पठित्वा प्रश्नानाम् उतराणि लिखत

भटः – जयतु महाराजः।
राजा – अपूर्व इव ते हर्षों ब्रूहि केनासि विस्मितः?
भटः – अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः॥
राजा – कथमिदानीं गृहीतः?
भटः – रथमासाद्य निश्शङ्कं बाहुभ्यामवतारितः।
राजा – केन?
भटः – यः किल एष नरेन्द्रेण विनियुक्तो महानसे (अभिमन्युमुद्दिश्य) इत इतः कुमारः।
अभिमन्युः – भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
बृहन्नला – इत इतः कुमारः।
अभिमन्युः – अये! अयमपरः कः विभात्युमावेषमिवाश्रितो हरः।
बृहन्नला – आर्य, अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्यः।
बल्लभः – (अपवार्य) बाढम् (प्रकाशम्) अभिमन्यो।

Question 1.
कः गृहीतः?

Answer

Answer: अभिमन्युः


Question 2.
अयमपरः कः? इति कः वदति।

Answer

Answer: अभिमन्युः


Question 3.
कः ग्रहणं गतः?

Answer

Answer: सौभद्रम्


Question 4.
अभिमन्युः कथं गृहीतः?

Answer

Answer: अभिमन्युः वञ्चयित्वा गृहीतः आसीत्।


Question 5.
सौभद्रः कथम् गृहीतः?

Answer

Answer: रथमासाद्य निश्शंङ्कः बाहुभ्याम् अवतारितः।


Question 6.
कौतूहलम्’ अस्य पदस्य विशेषणपदं किम् अत्र नाट्यांशे?

Answer

Answer: महत्


Question 7.
नाट्यांशेऽस्मिन् ‘अप्रकाशम्’ इति पदस्य विलोमपदं किम् अत्र?

Answer

Answer: प्रकाशम्


Question 8.
‘अस्मि’ इति क्रियापदस्य कर्तृपदं किम् अत्र?

Answer

Answer: अहम् (अभिमन्युः)


Question 9.
अत्र ‘शोभते’ इति अर्थे किं पदं प्रयुक्तम्?

Answer

Answer: विभाति


अभिमन्युः – कथं कथम्। अभिमन्यु माहम्। भोः। किमत्र विराटनगरे क्षत्रियवंशोभूता नीचैः अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवशं गतः। अतएव तिरस्क्रियते।
बृहन्नला – अभिमन्यो! सुखमास्ते ते जननी?
अभिमन्युः – कथं कथम्? जननी नाम? किं भवान् मे पिता अथवा पितृव्यः? कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?
बृहन्नला – अभिमन्यो! अपि कुशली देवकीपुत्रः केशवः?
अभिमन्युः – कथं कथम्? तत्रभवन्तमपि नाम्ना। अथ किम् अथ किम्? (बृहन्नला वल्लभौ परस्परमवलोकयतः)
अभिमन्युः – कथमिदानीं सावज्ञमिव मां हस्यते?
बृहन्नला – न खलु किञ्चित्।
पार्थं पितरमुद्दिश्य मातुलं च जनार्दनम्।
तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥

Question 1.
सुखमास्ते ते जननी? इति कः कथयति?

Answer

Answer: बृहन्नला


Question 2.
केशवः कस्याः पुत्रः आसीत्?

Answer

Answer: (देवकी) देवक्याः


Question 3.
कः तिरस्क्रियते?

Answer

Answer: अभिमन्युः


Question 4.
अभिमन्युः किमर्थम् तिरस्क्रियते?

Answer

Answer: अभिमन्युः शत्रुवशं गतः अतएव तिरस्क्रियते।


Question 5.
बृहन्नला अभिमन्युम् किं पृच्छति?

Answer

Answer: बृहन्नला अभिमन्युम् प्रच्छति-अभिमन्यो! सुखमास्ते ते जननी।


Question 6.
नाट्यांशे ‘अर्जुन’ इति पदस्य पर्यायपदं किम् प्रयुक्तम्?

Answer

Answer: पार्थं


Question 7.
अत्र ‘जनकः’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: जननी


Question 8.
‘पृच्छसे’ इति क्रियापदस्य कर्तृपदम् अत्र किम्?

Answer

Answer: त्वम्


Question 9.
अस्मिन् नाट्यांशे ‘माता’ इति पदस्य पर्यायपदं किं आगतम्?

Answer

Answer: जननी


अभिमन्युः – अलं स्वच्छन्दप्रलापेन। अस्माकं कुले आत्मस्तवं कर्तुमनुचितम्। रणभूमौ हतेषु शरान् पश्य, मदृते अन्यत् नाम न भविष्यति।
बृहन्नला – एवं वाक्यशौण्डीर्यम्। किमर्थं तेन पदातिना गृहीतः?
अभिमन्युः – अशस्त्रं मामभिगतः। पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति। अतः अशस्त्रोऽयं मां वञ्चयित्वा गृहीतवान्।
राजा – त्वर्यतां त्वर्यतामभिमन्युः।।
बृहन्नला – इत इतः कुमारः। एष महाराजः। उपसर्पतु कुमारः।
अभिमन्युः – आः। कस्य महाराजः?
राजा – एह्येहि पुत्र! कथं न मामभिवादयसि? (आत्मगतम्) अहो! उत्सिक्तः खल्वयं क्षत्रियकुमारः। अहमस्य दर्पप्रशमनं करोमि। (प्रकाशम्) अथ केनायं गृहीतः?
भीमसेनः – महाराज! मया।
अभिमन्युः – अशस्त्रेणेत्यभिधीयताम्
भीमसेनः – शान्तं पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम तु भुजौ एव प्रहरणम्।
अभिमन्युः – मा तावद् भोः! किं भवान् मध्यमः तात: यः तस्य सदृशं वचः वदति।
भगवान् – पुत्र! कोऽयं मध्यमो नाम?

Question 1.
अभिमन्युः रणभूमौ कथं गृहीतः?

Answer

Answer: वञ्चयित्वा


Question 2.
कस्य कुले आत्मस्तवं अनुचितम् अस्ति?

Answer

Answer: अभिमन्योः (अभिमन्युकुले)


Question 3.
अभिमन्युः कथम् गृहीतः?

Answer

Answer: पदातिना


Question 4.
अशस्त्रेषु कीदृशाः जनाः न प्रहरन्ति?

Answer

Answer: अशस्त्रेषु अभिमन्योः सदृशाः न प्रहरन्ति।


Question 5.
धनुस्तु कैः एव गृह्यते?

Answer

Answer: धनुस्तु दुर्बलैः एव गृह्यते।


Question 6.
अत्र नाट्यांशे ‘क्षत्रियकुमारः’ इति पदस्य विशेषणपदं किम्?

Answer

Answer: अयं


Question 7.
‘करोमि’ इति क्रियापदस्य कर्ता कः अत्र?

Answer

Answer: अहम्


Question 8.
नाट्यांशे ‘प्रकाशम्’ इति विपर्ययपदं नाट्यांशे किम् आगतम्?

Answer

Answer: आत्मगतम्


Question 9.
अस्मिन् नाट्यांशे ‘सबलैः’ इति पदस्य विपर्ययपदं किम् प्रयुक्तम्?

Answer

Answer: दुर्बलैः


अभिमन्युः – यद्यहमनुग्राह्यः
पादयोः समुदाचारः क्रियतां निग्रहोचितः।
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति॥
(ततः प्रविशत्युत्तर)
उत्तरः – तात! अभिवादये!
राजा – आयुष्मान् भव पुत्र। पूजिताः कृतकर्माणो योधपुरुषाः।
उत्तरः – पूज्यतमस्य क्रियतां पूजा।
राजा – पुत्र! कस्मै?
उत्तरः – इहात्रभवते धनञ्जयाय।
राजा – कथं धनञ्जयायेति?
उत्तरः – अथ किम्
श्मशानाद्धनुरादाय तूणीराक्षयसायके ।
नृपा भीष्मादयो भग्ना वयं च परिरक्षिताः॥
राजा – एवमेतत्।
उत्तरः – व्यपनयतु भवाञ्छङ्काम्। अयमेव अस्ति धनुर्धरः धनञ्जयः।

Question 1.
ततः कः प्रविशति?

Answer

Answer: उत्तरः


Question 2.
क: बाहुभ्यामेव नेष्यति?

Answer

Answer: भीमः


Question 3.
धनञ्जयः कः आसीत्

Answer

Answer: धनुर्धरः


Question 4.
पूज्यतमः धनुर्धरः कः अस्ति?

Answer

Answer: पूज्यतमः धनुर्धरः (अर्जुनः) धनञ्जयः अस्ति।


Question 5.
भीमः काभ्यामेव नेष्यति।

Answer

Answer: भीमः बाहुभ्यामेव नेष्यति।


Question 6.
अत्र ‘अभिवादये’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: अहम् (उत्तरः)


Question 7.
नाट्यांशे अत्र ‘भीमः’ इति कर्तृपदस्य क्रियापदंकिम्?

Answer

Answer: नेष्यति


Question 8.
धनञ्जयः’ इति पदस्य विशेषणपदं किम् अत्र?

Answer

Answer: धनुर्धरः


Question 9.
‘धनञ्जयः’ इति पदं कस्मै प्रयुक्तम् अस्मिन् नाट्यांशे?

Answer

Answer: अर्जुनाय


श्लोकस्य अन्वयं लेखनम्

पादयोः समुदाचारः क्रियतां निग्रहोचितः।
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।

अन्वयः- पादयोः (i) ………….. उचितः (ii) ………… क्रियताम् (iii) आहतम् (माम्) (iv) …………… बाहुभ्याम् एव नेष्यति।
मञ्जूषा- समुदाचारः, निग्रहः, भीमः, बाहुभ्याम्

Answer

Answer:
(i) निग्रहः
(ii) समुदाचारः
(iii) बाहुभ्याम्
(iv) भीमः


श्मशानाद्धनुरादाय तूणीराक्षयसायके।
नृपा भीष्मादयो भग्ना वयं च परिरक्षिताः॥

अन्वयः- (i) …………….. धनुः (ii) …………… आदाय (iii) …………….. नृपाः (iv) …………… वयं च परिरक्षिताः।
मञ्जूषा- तूणीराक्षयः, श्मशानात्, भग्नाः, भीष्मादयः

Answer

Answer:
(i) श्मशानात्
(ii) तूणीराक्षयः
(iii) भीष्मादयः
(iv) भग्नाः


पार्थं पितरमुद्दिश्य मातुलं च जनार्दनम्।
तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥

अन्वयः- पार्थं (i) …………….. मातुलं (ii) ……………… च (iii) ……………. कृतः (iv) ……………… तरुणस्य युद्धपराजयः युक्तः।
मञ्जूषाः- जनार्दनं, अस्त्रस्य, उद्दिश्य, पितरं

Answer

Answer:
(i) पितरं
(ii) जनार्दनं
(iii) उद्दिश्य
(iv) अस्त्रस्य


योकायित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना।।
असह्यं कर्म तत् कृत्वा नीतः कृष्णोऽतदर्हताम्॥

अन्वयः- कण्ठश्लिष्टेन (i) ……………. जरासन्धं (ii) ………………. तत् (iii) …………………. कर्म (iv) ……………. (भीमेन) कृष्णः अतदर्हतां नीतः।।
मञ्जूषाः- कृत्वा, बाहुना, योक्त्रयित्वा, असह्यं

Answer

Answer:
(i) बाहुना
(ii) योक्त्रयित्वा
(iii) असह्यं
(iv) कृत्वा


न ते क्षेपेण रुष्यामि, रुष्यता भवता रमे।
किमुक्त्वा नापराद्धोऽहं, कथं तिष्ठति यात्विति॥

अन्वयः- रुष्यता (i) ……………. रमे। ते (ii) ……………. न रुष्यामि (iii) ………….. उक्त्वा अहं नापराद्धः (iv) ……………. (भवान्) तिष्ठति यातु इति।
मञ्जूषाः- क्षेपेण, कथं, किम्, भवता

Answer

Answer:
(i) भवता
(ii) क्षेपेण
(iii) किम्
(iv) कथं


निम्नवाक्यानि घटनाक्रमानुसारं पुनर्लिखत

1. (i) विराटपुत्रः उत्तरः बृहन्नलां (अर्जुनम्) सारथिं मत्वा कौरवेभ्यः युद्धस्य गच्छति।
(ii) दुर्योधनादयः कौरवाः राज्ञः विराटस्य धेनूः अपाहरन्।
(iii) अतः सः ताभ्यां सहे उग्रतार्पूवकं वार्ता करोति।
(iv) अन्ते राजपुत्रः उत्तरः आगत्य तयोः रहस्योद्घाटनं करोति।
(v) युद्धे कौरवाणां पराजयो भवति।
(vi) कौरवपक्षे अभिमन्युः युद्धम् करोति।
(vii) अभिमन्युः अर्जुनं भीमसेनं च न ज्ञायते।
(viii) वल्लभ वेषधारी भीमसेनः रणभूमौ अभिमन्युं ग्रहीतवान्।

Answer

Answer:
(i) दुर्योधनादयः कौरवाः राज्ञः विराटस्य धेनूः अपाहरन्।
(ii) कौरवपक्षे अभिमन्युः युद्धम् करोति।
(iii) विराटपुत्रः उत्तरः बृहन्नला (अर्जुनम्) सारथिं मत्वा कौरवेभ्यः युद्धस्य गच्छति।
(iv) युद्धे कौरवाणां पराजयो भवति।
(v) वल्लभ वेषधारी भीमसेनः रणभूमौ अभिमन्यु ग्रहीतवान्।
(vi) अभिमन्युः अर्जुनं भीमसेनं च न ज्ञायते।
(vii) अतः सः ताभ्यां सहे उग्रतार्पूवकं वार्ता करोति।
(viii) अन्ते राजपुत्रः उत्तरः आगत्य तयोः रहस्योद्घाटनं करोति।


2. (i) अर्जुनः भीमसेनः च तम् अभिमन्यु नृपस्य समीपे आनयतः।
(ii) राजपुत्रस्य उत्तरस्य उत्तरेण तयोः रहस्योद्घाटनम् अभवत्।
(iii) अभिमन्युः नृपं, भीमम् अर्जुनं च प्रणामं न अकरोत्।
(iv) दुर्योधनादयः कौरवाः राज्ञः विराटस्य गाः अपाहरन्।
(v) विराटपुत्रः उत्तरः बृहन्नलां सारधिं कृत्वा कौरवेभ्यः युद्धाय गच्छति।
(vi) तौ अभिमन्यु नुपस्य समीपे प्रस्तुतवन्तौ।
(vii) कौरवाणां पक्षतः अभिमन्युः युद्धम् अकरोत्।
(viii) अभिमन्युः तौ न अजानत्।

Answer

Answer:
(i) दुर्योधनादयः कौरवाः राज्ञः विराटस्य गाः अपाहरन्।
(ii) कौरवाणां पक्षतः अभिमन्युः युद्धम् अकरोत्।
(iii) विराटपुत्रः उत्तरः बृहन्नलां सारधिं कृत्वा कौरवेभ्यः युद्धाय गच्छति।
(iv) अर्जुनः भीमसेनः च तम् अभिमन्यु नृपस्य समीपे आनयतः।
(v) तौ अभिमन्यु नुपस्य समीपे प्रस्तुतवन्तौ।
(vi) अभिमन्युः तौ न अजानत्।
(vii) अभिमन्युः नृपं, भीमम् अर्जुनं च प्रणामं न अकरोत्।
(viii) राजपुत्रस्य उत्तरस्य उत्तरेण तयोः रहस्योद्घाटनम् अभवत्।


निम्न ‘क’ वर्गीय पदायं ‘ख’ वर्गीय पदेषु पर्यायपदानि चीयताम्

‘क’ पदानि – ‘ख’ पर्यायपदानि
(i) सौभद्रः – हर्षः
(ii) प्रकाशम् – शोभते
(iii) जनार्दनम् – पितुःभ्राता
(iv) प्रलापेन – अभिमन्युः
(v) प्रसन्नता – प्रकटरूपेण
(vi) विभाति – वीरता
(vii) पितृव्यः – श्रीकृष्णम्
(viii) मतृदे – अनर्गलभाषणेन
(ix) शौण्डीर्यम् – त्यजतु
(x) समीपं गच्छतु – अर्जुनाय
(xi) त्वर्यताम् – मां बिना
(xii) दूरीकरोतु – उपसर्पतु
(xiii) धनञ्जनाय – व्यपनयतु
(xiv) दर्पः – घमण्डः

Answer

Answer:
(i) अभिमन्युः
(ii) प्रकटरूपेण
(iii) श्रीकृष्णम्
(iv) अनर्गलभाषणेन
(v) हर्षः
(vi) शोभते
(vii) पितुःभ्राता
(viii) मां बिना
(ix) वीरता
(x) उपसर्पतु
(xi) उपसर्पतु
(xii) व्यपनपतु
(xiii) अर्जुनाय
(xiv) घमण्डः


We hope the given NCERT MCQ Questions for Class 9 Sanskrit Chapter 7 प्रत्यभिज्ञानम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 9 Sanskrit प्रत्यभिज्ञानम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.


Leave a Comment