MCQ Questions for Class 9 Sanskrit Chapter 2 स्वर्णकाकः with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter 2 स्वर्णकाकः with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided स्वर्णकाकः Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 9 Sanskrit Chapter 2 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नवाक्येषु रेखाङ्कित पदानां स्थानेषु प्रश्नवाचकं पदं लिखत

Question 1.
पुरा कस्मिंश्चिद् ग्रामे एका वृद्धा न्यवसत्।
(क) कः
(ख) का
(ग) किम्
(घ) के

Answer

Answer: (ख) का


Question 2.
तस्याः दुहिता विनम्रा मनोहरा च आसीत्।
(क) का
(ख) कीदृशम्
(ग) कीदृशः
(घ) कीदृशी

Answer

Answer: (घ) कीदृशी


Question 3.
सा पुत्रीम् आदिदेश।
(क) काम्
(ख) कम्
(ग) किम्
(घ) कथम्

Answer

Answer: (क) काम्


Question 4.
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।
(क) कथम्
(ख) काभ्यः
(ग) केभ्यः
(घ) कस्यै

Answer

Answer: (ग) केभ्यः


Question 5.
तदा एकः विचित्रः काकः समुड्डीय ताम् उपाजगाम।
(क) के
(ख) काः
(ग) कः
(घ) कीदृशः

Answer

Answer: (ग) कः


Question 6.
सा प्रार्थयत् – तण्डुलान् मा भक्षय।
(क) का
(ख) क:
(ग) के
(घ) काः

Answer

Answer: (क) का


Question 7.
प्रहर्षिता बालिका निद्राम् अपि न लेभे।
(क) कथम्
(ख) कीदृशी
(ग) कीदृशः
(घ) कीदृशम्

Answer

Answer: (ख) कीदृशी


Question 8.
अहं तुभ्यं तण्डुलमूल्यं प्रदास्यामि।
(क) कम्
(ख) कस्यै
(ग) केभ्यः
(घ) काभ्यः

Answer

Answer: (ख) कस्यै


Question 9.
वृक्षस्य उपरि विलोक्य सा आश्चर्यचकिता सञ्जाता।
(क) का
(ख) काः
(ग) कीदृशः
(घ) कीदृशी

Answer

Answer: (ग) कीदृशः


Question 10.
अहं त्वत्कृते सोपानम् अवतारयामि।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कथम्

Answer

Answer: (क) किम्


Question 11.
अहं निर्धनमातुः दुहिता अस्मि।
(क) कस्याः
(ख) कस्य
(ग) कः
(घ) का

Answer

Answer: (क) कस्याः


Question 12.
श्रान्तां तां विलोक्य काकः प्राह।
(क) के
(ख) कथम्
(ग) काः
(घ) कः

Answer

Answer: (घ) कः


Question 13.
अहं निर्धना ताम्रस्थाल्याम् एव भोजनं करिष्यामि।
(क) कस्याम्
(ख) के
(ग) काः
(घ) काभ्यः

Answer

Answer: (क) कस्याम्


Question 14.
तव माता एकाकिनी वर्तते।
(क) किम्
(ख) कस्याः
(ग) के
(घ) का

Answer

Answer: (ख) कस्याः


Question 15.
त्वं शीघ्रमेव स्वगृहं गच्छ।
(क) कीदृशः
(ख) कस्यै
(ग) का
(घ) कुत्र

Answer

Answer: (घ) कुत्र


Question 16.
काकः कक्षाभ्यन्तरात् तिस्रः मञ्जूषाः निस्सार्य अवदत्।
(क) कति
(ख) कथम्
(ग) किम्
(घ) काम्

Answer

Answer: (क) कति


Question 17.
लघुतमा मञ्जूषां प्रगृह्य बालिकया कथितम्।
(क) कम्
(ख) कया
(ग) कस्याः
(घ) काम्

Answer

Answer: (ख) कया


Question 18.
तत्रैव एका अपरा लुब्धा वृद्धा न्यवसत्।
(क) कः
(ख) किम्
(ग) केभ्यः
(घ) का

Answer

Answer: (घ) का


Question 19.
ईय॒या सा स्वर्णकाकस्य रहस्यम् अभिज्ञातवती।
(क) कथम्/कया
(ख) का
(ग) कस्मै
(घ) कस्याः

Answer

Answer: (क) कथम्/कया


Question 20.
तथा अपि स्वसुता तण्डुलरक्षार्थं नियुक्ता।
(क) कथम्
(ख) के।
(ग) कः
(घ) का

Answer

Answer: (घ) का


Question 21.
महयं तण्डुलमूल्यं प्रयच्छ।।
(क) कस्याः
(ख) किम्
(ग) कथम्
(घ) कः

Answer

Answer: (ख) किम्


Question 22.
स्वर्णमयेन सोपानेन अहम् आगच्छामि।
(क) कीदृशेण
(ख) कीदृशी
(ग) काभ्यः
(घ) का

Answer

Answer: (क) कीदृशेण


Question 23.
लोभाविष्टा सा बृहत्तमा मञ्जूषां गृहीतवती।
(क) के
(ख) कस्याः
(ग) का
(घ) कीदृशी

Answer

Answer: (घ) कीदृशी


Question 24.
तस्यां तया भीषणः सर्पः विलोकितः।
(क) कः
(ख) कम्
(ग) का
(घ) कम्

Answer

Answer: (क) कः


Question 25.
लुब्धया बालिकया लोभस्य फलं प्राप्तम्।
(क) कः
(ख) किम्
(ग) केभ्यः
(घ) कस्य

Answer

Answer: (घ) कस्य


निम्नलिखितम् अनुच्छेदं पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि लिखत

पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्। तस्याः च एका दुहिता विनम्रा मनोहरा चासीत्। एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्। “सूर्यातपे तण्डुलान् खगेभ्यो रक्षा” किञ्चित् कालादनन्तरम् एको विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत्।

Question 1.
वृद्धा स्त्री कीदृशी आसीत्?

Answer

Answer: निर्धना


Question 2.
वृद्धायाः कीदृशी दुहिता आसीत्?

Answer

Answer: विनम्रा


Question 3.
निर्धनास्त्री कुत्र न्यवसत्?

Answer

Answer: कस्मिंश्चिद्ग्रामे


Question 4.
किञ्चित्कालानन्तरम् किम् अभवत्?

Answer

Answer: किञ्चित्कालानन्तरम् एको विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत्।


Question 5.
दुहिता कीदृशी आसीत?

Answer

Answer: दुहिता विनम्रा मनोहरा चासीत्।


Question 6.
अनुच्छेदे ‘न्यवसत्’ इति क्रियापदस्य कर्तृपदं किमस्ति?

Answer

Answer: स्त्री


Question 7.
‘दुहिता विनम्रा’ अनयोः पदयोः विशेषणपदं किम्?

Answer

Answer: विनम्रा


Question 8.
अस्मिन् अनुच्छेदे ‘धनवती’ इति पदस्य कः विपर्ययः आगतोऽस्ति?

Answer

Answer: निर्धना


Question 9.
पुत्री इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: दुहिता


नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः। तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत्-“तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते।” स्वर्णपक्षः काकः प्रोवाच, “मा शुचः। सूर्योदयात्प्राग् ग्रामाबहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्। अहं तुभ्यं तण्डुलमूल्यं दास्यामि।” प्रहर्षिता बालिका निद्रामपि न लेभे।

Question 1.
स्वर्णकाकस्य चञ्चुः कीदृशः आसीत्?

Answer

Answer: रजतस्य


Question 2.
बालिकायाः माता कीदृशी आसीत्?

Answer

Answer: निर्धना


Question 3.
कः तण्डुलान् अखादत्?

Answer

Answer: स्वर्णकाकः


Question 4.
स्वर्णकाकं निवारयन्ती सा किं प्रार्थयत्?

Answer

Answer: स्वर्णकाकं निवारयन्ती सा प्रार्थयत्–“तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते।”


Question 5.
स्वर्णकाकः किम् अवदत्?

Answer

Answer: स्वर्णकाकः प्रोवाच मा शुचः। सूर्योदयात्प्राग् ग्रामाबहिः पिप्पवृक्षमनु त्वया आगन्तव्यम्। अहं तुभ्यं तण्डुलमूल्यं दास्यामि।


Question 6.
अनुच्छेदे ‘हसितुम्’ इत्यस्य पदस्य कः विपर्ययः लिखितः?

Answer

Answer: रोदितुम्


Question 7.
‘रोदितुमारब्धा’ इत्यस्याः क्रियायाः अनुच्छेदे कर्तृपदं किं वर्तते?

Answer

Answer: बालिका


Question 8.
‘प्रहर्षिता बालिका निद्रामपि न लेभे’। अत्र वाक्ये विशेषणपदं किमस्ति?

Answer

Answer: प्रहर्षिता


Question 9.
‘दृष्ट्वा’ इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: विलोक्य


सूर्योदयात्पूर्वमेव सा तत्रोपस्थिता। वृक्षस्योपरि विलोक्य सा च आश्चर्यचकिता सञ्जाता यत् तत्र स्वर्णमयः प्रासादो वर्तते। यदा काकः शयित्वा प्रबुद्धस्तदा तेन स्वर्णगवाक्षात्कथितं “हहो बाले! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमयं रजतमयम् ताम्रमयं वा”? कन्या अवदत्-“अहं निर्धनमातुः दुहिता अस्मि। ताम्रसोपानेनैव आगमिष्यामि।” परं स्वर्णसोपानेन सा स्वर्णभवनम् आरोहत्।

Question 1.
सूर्योदयात् पूर्वमेव का तत्र उपस्थिता?

Answer

Answer: बालिका (सा)


Question 2.
कन्या कस्याः दुहिता आसीत्?

Answer

Answer: निर्धनमातुः


Question 3.
काकः किं कृत्वा प्रबुद्धः?

Answer

Answer: शयित्वा


Question 4.
स्वर्णगवाक्षात् काकेन किं कथितम्?

Answer

Answer: स्वर्णगवाक्षात् काकेन कथितम्-हहो बाले! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि।


Question 5.
कन्या किं प्रावोचत्?

Answer

Answer: कन्या प्रावोचत् अहं निर्धनमातुर्दुहिताऽस्मि। ताम्रसोपानेनैव आगमिष्यामि।


Question 6.
‘अधः’ इत्यस्य पदस्य कः विपर्ययः अनुच्छेदे लिखितोऽस्ति?

Answer

Answer: उपरि


Question 7.
‘अहं निर्धनमातुः दुहिता अस्मि’। अत्र वाक्ये ‘अहम्’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: अस्मि


Question 8.
अनुच्छेदे ‘ताम्रमयं सोपानम्’ अनयोः पदयोः विशेषणपदं किमस्ति?

Answer

Answer: ताम्रमयं


Question 9.
‘अस्ति’ इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: वर्तते


चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता। श्रान्तां तां विलोक्य काकः अवदत् “पूर्वं लघुप्रातराशः क्रियताम्-वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्याम् उत ताम्रस्थाल्याम्”? बालिका अवदत्-ताम्रस्थाल्याम् एव अहं-“निर्धना भोजनं करिष्यामि।” तदा सा आश्चर्यचकिता सञ्जाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं पर्यवेषितम्। न एतादृशम् स्वादु भोजनमद्यावधि बालिका खादितवती। काकोऽवदत्-“बालिके! अहमिच्छामि यत् त्वम् सर्वदा अत्रैव तिष्ठ परं तव माता तु एकाकिनी वर्तते। अतः
त्वं शीघ्रमेव स्वगृहं गच्छ।”

Question 1.
कीदृशीं तां विलोक्य काकः प्राह?

Answer

Answer: श्रान्ताम्


Question 2.
बालिका कीदृशं भोजनम् अद्यावधि न खादितवती?

Answer

Answer: स्वादु


Question 3.
कीदृशानिवस्तूनि दृष्ट्वा सा विस्मयं गता?

Answer

Answer: चित्रविचित्रवस्तूनि


Question 4.
सा बालिका कथं विस्मयं गता?

Answer

Answer: चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता।


Question 5.
काकः किम् अवदत्।

Answer

Answer: काकः अवदत्-बालिके! अहमिच्छामि यत्त्वं सर्वदा अत्रैव तिष्ठ परं तव माता तु एकाकिनी वर्तते। त्वं शीघ्रमेव स्वगृहं गच्छ।


Question 6.
‘तदा सा कन्या आश्चर्यचकिता सञ्जाता’। अस्मिन् वाक्ये विशेषणपदं किमस्ति?

Answer

Answer: आश्चर्यचकिता


Question 7.
अनुच्छेदे ‘जननी’ इत्यस्य पदस्य कः पर्यायः लिखितः?

Answer

Answer: माता


Question 8.
‘त्वम्’ इत्यस्य कर्तृपदस्य अनुच्छेदे क्रियापदं किमस्ति?

Answer

Answer: तिष्ठ


Question 9.
‘दृष्ट्वा ‘ इत्यर्थे किम् पदं प्रयुक्तम्?

Answer

Answer: विलोक्य


इत्युक्त्वा काकः कक्षाभ्यन्तरात् तिम्रः मञ्जूषाः निस्सार्य तां प्रत्यवदत् “बालिके! यथेच्छं गृहाण मञ्जूषामेकाम्।” लघुतमा मञ्जूषां प्रगृह्य बालिकया कथितम् इयत् एव मदीयतण्डुलानां मूल्यम्। गृहमागत्य तया मञ्जूषा समुद्घाटिता, तस्यां महार्हाणि हीरकाणि विलोक्य सा प्रहर्षिता तद्दिनाद्धनिका च सञ्जाता।

Question 1.
काकः कक्षाभ्यन्तरात् कति मञ्जूषाः निस्सारयति?

Answer

Answer: तिस्रः


Question 2.
कीदृशीं मञ्जूषां प्रगृह्य बालिका कथितम्?

Answer

Answer: लघुतमाम्


Question 3.
किं विलोक्य सा प्रहर्षिता सञ्जाता?

Answer

Answer: हीरकाणि


Question 4.
मञ्जूषायां कानि विलोक्य सा बालिका प्रहर्षिता अभवत्?

Answer

Answer: मञ्जूषायां महार्हाणि हीरकाणि विलोक्य सा बालिका प्रहर्षिता अभवत्।


Question 5.
काकः किं अवदत्?

Answer

Answer: बालिके! यथेच्छं गृहाण मञ्जूषामेकाम्।


Question 6.
‘प्रत्यवदत्’ इति क्रियापदस्य अनुच्छेदे कर्तृपदं किमस्ति?

Answer

Answer: काकः


Question 7.
अनुच्छेदे ‘सा’ इति कर्तृपदस्य क्रियापदं किम् आगतम्?

Answer

Answer: सञ्जाता


Question 8.
निष्क्रम्य’ इति पदस्य कः विपर्ययः अत्र अनुच्छेदे लिखितः?

Answer

Answer: आगत्य


Question 9.
‘ग्रहणं कुरु’ इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: गृहाण


तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा न्यवसत्। तस्या अपि एका पुत्री आसीत्। ईjया सा तस्य स्वर्णकाकस्य रहस्यम् ज्ञातवती। सूर्यातपे तण्डुलान् निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता। तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्। प्रातस्तत्र गत्वा सा काकं निर्भर्त्सयन्ती प्रावोचत्-“भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।” काकोऽब्रवीत्-“अहं त्वत्कृते सोपानम् अवतारयामि। तत्कथय स्वर्णमयं रजतमयं ताम्रमयं वा।” गर्वितया बालिकया प्रोक्तम्- “स्वर्णमयेन सोपानेन अहम् आगच्छामि।” परं स्वर्णकाकस्तत्कृते ताम्रमयं सोपानमेव प्रायच्छत्। स्वर्णकाकस्तां भोजनमपि ताम्रभाजने एव अकारयत्।

Question 1.
तस्मिन् एव ग्रामे कीदृशी वृद्धा न्यवसत्?

Answer

Answer: लुब्धा


Question 2.
स्वर्णकाकः तां बालिकां कस्मिन् भोजनम् अकारयत्?

Answer

Answer: ताम्रभाजने


Question 3.
लुब्धा वृद्धायाः एका का आसीत्?

Answer

Answer: पुत्री


Question 4.
सा वृद्धा ईर्ष्णया किम् अभिज्ञातवती?

Answer

Answer: सा वृद्धा ईर्ष्णया तस्य स्वर्णकाकस्य रहस्यम् अभिज्ञातवती।


Question 5.
तस्मिन्नेव ग्रामे एकाऽपरा कीदृशी वृद्धा न्यवसत्?

Answer

Answer: तस्मिन्नेव ग्रामे एकाऽपरा लुब्धा वृद्धा न्यवसत्।


Question 6.
अनुच्छेदे ‘अकारयत्’ इति क्रियायाः कर्तृपदं किम्?

Answer

Answer: स्वर्णकाकः


Question 7.
अनुच्छेदे ‘लुब्धा वृद्धा’ इति कर्तृपदस्य क्रियापदं किमस्ति?

Answer

Answer: न्यवसत्


Question 8.
प्रशंसयन्ती’ इति पदस्य कः विपर्ययः अनुच्छेदे आगतः?

Answer

Answer: निर्भर्त्सयन्ती


Question 9.
‘वसति स्म’ इति अर्थे किं पदं प्रयुक्तम्?

Answer

Answer: न्यवसत्


प्रतिनिवृत्तिकाले स्वर्णकाकेन कक्षाभ्यन्तरात् तिम्रः मञ्जूषाः तत्पुरः समुत्क्षिप्ताः। लोभाविष्टा सा बृहत्तमा मञ्जूषां गृहीतवती। गृहमागत्य सा तर्षिता यावद् मञ्जूषामुद्घाटयति तावत् तस्यां भीषणः कृष्णसर्पो विलोकितः। लुब्धया बालिकया लोभस्य फलं प्राप्तम्। तदनन्तरं सा लोभं पर्यत्यजत्।

Question 1.
केन तिस्रः मञ्जूषाः कन्यायाः पुरः समुत्क्षिप्ताः?

Answer

Answer: स्वर्णकाकेन


Question 2.
लोभाविष्टा सा कन्या कीदृशीं मञ्जूषां गृहीतवती?

Answer

Answer: बृहत्तमाम्


Question 3.
मञ्जूषाम् उद्घाट्य सा किम् पश्यति?

Answer

Answer: कृष्णसर्पः


Question 4.
गृहमागत्य यदा सा तर्षिता मञ्जूषाम् उद्घाटयति तदा कं विलोकयति?

Answer

Answer: गृहमागत्य यदा सा तर्षिता मञ्जूषाम् उद्घाटयति तदा तस्यां भीषणं कृष्णसर्प विलोकयति।


Question 5.
लुब्धया बालिकया कस्य फल प्राप्तम्?

Answer

Answer: लुब्धया बालिकया लोभस्य प्राप्तम्।


Question 6.
अनुच्छेदे ‘समुत्क्षिप्ताः’ इति क्रियायाः कर्तृपदं किम्?

Answer

Answer: स्वर्णकाकेन


Question 7.
अस्मिन् अनुच्छेदे ‘लोभाविष्टा’ इति विशेषणं कस्यै आगतम्?

Answer

Answer: बालिकायै


Question 8.
तदनन्तरं सा लोभं पर्यत्यजत्’। अत्र अव्ययपदं किमस्ति?

Answer

Answer: अनन्तरम्


Question 9.
‘तस्य समक्षे’ इत्यर्थे किं पदं प्रयुक्तम्?

Answer

Answer: तत्पुरः


निम्नवाक्यानि घटनाक्रमानुसारं पुनर्लिखत

1. (i) बालिका सूर्योदयात् पूर्वम् एव तत्र उपस्थिता अभवत्।
(ii) यदा मञ्जूषां सा उद्घाटितवती तदा तस्यां महार्हाणि हीरकाणि दृष्ट्वा सा प्रसन्ना जाता।
(iii) यदा काकः शचित्वा प्रबुद्धः जातः तदा सः स्वर्णगवाक्षात् अवदत्।
(iv) कस्मिंश्चिद् ग्रामे एका धनहीना वृद्धा स्त्री अवसत्।
(v) बालिका अकथयत्-अहं ताम्रस्थाल्यामेव भोजनं करिष्यामि।
(vi) बालिके! त्वम् आगता? तिष्ठ, अहं त्वत्कृते सोपानम् अवतारयामि।
(vii) सा काकं भर्त्सयन्ती अवदत्।
(viii) परं स्वर्णसोपानेन सा स्वर्णभवनम् आससाद।

Answer

Answer:
(i) कस्मिंश्चिद् ग्रामे एका धनहीना वृद्धा स्त्री अवसत्।
(ii) बालिका सूर्योदयात् पूर्वम् एव तत्र उपस्थिता अभवत्।
(iii) यदा काकः शचित्वा प्रबुद्धः जातः तदा सः स्वर्णगवाक्षात् अवदत्।
(iv) बालिके! त्वम् आगता? तिष्ठ, अहं त्वत्कृते सोपानम् अवतारयामि।
(v) परं स्वर्णसोपानेन सा स्वर्णभवनम् आससाद।
(vi) बालिका अकथयत् – अहं ताम्रस्थाल्यामेव भोजनं करिष्यामि।
(vii) यदा मञ्जूषां सा उद्घाटितवती तदा तस्यां महार्हाणि हीरकाणि दृष्ट्वा सा प्रसन्ना जाता।
(viii) सा काकं भर्त्सयन्ती अवदत्।


2. (i) इति उक्त्वा काकः कक्षायाः अभ्यन्तरात् तिस्रः मञ्जूषाः निस्सारयत्।
(ii) लोभाविष्टा सा बृहत्तमा मञ्जूषां गृहीतवती।
(iii) भो नीचकाक! अहम् आगता अस्मि। मह्यं तण्डुलमूल्यं प्रयच्छ।
(iv) किञ्चित् कालात् अनन्तरं एकः विचित्रः काकः तत्र तामुपाजगाम।
(v) एकस्याः वृद्धायाः एका विनम्रा मनोहरा च कन्या आसीत्।
(vi) कन्या प्रावोचत्-अहं निर्धन मातुः कन्या अस्मि। अतः ताम्र सोपानेन एव आगमिष्यामि।
(vii) तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा स्त्री अवसत्।
(viii) एकदा सा पुत्रीम् आदिदेश-सूर्यातपे तण्डुलात् खगेभ्यो त्वं रक्ष।

Answer

Answer:
(i) एकस्याः वृद्धायाः एका विनम्रा मनोहरा च कन्या आसीत्।
(ii) एकदा सा पुत्रीम् आदिदेश-सूर्यातपे तण्डुलात् खगेभ्यो त्वं रक्ष।
(iii) किञ्चित् कालात् अनन्तरं एकः विचित्रः काकः तत्र तामुपाजगाम।
(iv) कन्या प्रावोचत्-अहं निर्धन मातुः कन्या अस्मि। अतः ताम्र सोपानेन एव आगमिष्यामि।
(v) इति उक्त्वा काकः कक्षायाः अभ्यन्तरात् तिम्रः मञ्जूषाः निस्सारयत्।
(vi) तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा स्त्री अवसत्।
(vii) भो नीचकाक! अहम् आगता अस्मि। मह्यं तण्डुलमूल्यं प्रयच्छ।
(viii) लोभाविष्टा सा बृहत्तमा मञ्जूषां गृहीतवती।


3. (i) गृहम् आगत्य यदा सा मञ्जूषाम् उद्घाटयति तदा तस्मिन् एवं कृष्णसर्पम् अपश्यत्।
(ii) हे नीच काक! अहम् आगता अस्मि, मह्यं तण्डुलानां मूल्यं प्रयच्छ।
(iii) तदनन्तरं सा लोभम् अत्यजत्।
(iv) तस्मिन् एव ग्रामे एका लुब्धा वृद्धा अपि न्यवसत्।
(v) गर्विता बालिका अवदत्-अहं स्वर्णमयेन सोपानेव एव आगमिष्यामि।
(vi) लुब्धया कन्यया लोभस्य फलं प्राप्तम्।
(vii) तस्याः अपि एका ईर्ष्यालुः कन्या अपि आसीत्।
(viii) सूर्यातपे सापि तण्डुलान् निक्षिप्य स्वसुतां तेषां रक्षार्थं नियुक्तवती।

Answer

Answer:
(i) तस्मिन् एव ग्रामे एका लुब्धा वृद्धा अपि न्यवसत्।
(ii) तस्याः अपि एका ईर्ष्यालुः कन्या अपि आसीत्।।
(iii) सूर्यातपे सापि तण्डुलान् निक्षिप्य स्वसुतां तेषां रक्षार्थं नियुक्तवती।
(iv) हे नीच काक! अहम् आगता अस्मि, महयं तण्डुलानां मूल्यं प्रयच्छ।
(v) गर्विता बालिका अवदत्-अहं स्वर्णमयेन सोपानेव एव आगमिष्यामि।।
(vi) गृहम् आगत्य यदा सा मञ्जूषाम् उद्घाटयति तदा तस्मिन् एवं कृष्णसर्पम् अपश्यत्।
(vii) लुब्धया कन्यया लोभस्य फलं प्राप्तम्।
(viii) तदनन्तरं सा लोभम् अत्यजत्।


निम्न पदानां पर्यायपदानि मेलयत-

पदानि – पर्यायः
(i) निर्धना – अवदत्
(ii) एकदा – तस्याः समक्षे
(iii) पुरा – शोकं कुरु
(iv) माता – अतीव प्रसन्ना
(v) शुचः – स्वर्णशरीरम्
(vi) प्रबुद्धः – अद्यपर्यन्तम्
(vii) स्वर्णमयम् – निक्षिप्ताः
(viii) चिरकालम् – दृष्ट्वा
(ix) दुहिता – असन्तुष्टा (उत्कण्ठिता)
(x) विस्मयम् – एकवारम् (एकस्मिन् दिवसे)
(xi) प्राह – खादन
(xii) अद्यावधि – प्राचीने काले
(xiii) प्रगृह्य – जागरितः
(xiv) विलोक्य – दीर्घकालम्
(xv) प्रहर्षिता – जननी
(xvi) भक्षयन् – गृहीत्वा
(xvii) तत्पुरः – धनहीना
(xviii) समुत्क्षिप्ताः – आश्चर्यम्
(xix) पर्यत्यजत् – तुभ्यम्
(xx) तर्षिता – सुता
(xxi) त्वत्कृते – त्यक्तवती

Answer

Answer:
(i) धनहीना
(ii) एकवारम् (एकस्मिन् दिवसे)
(iii) प्राचीनेकाले
(iv) जननी
(v) शोकं कुरु
(vi) जागरितः
(vii) स्वर्णशरीरम्
(viii) दीर्घकालम्
(ix) सुता
(x) आश्चर्यम्
(xi) अवदत्
(xii) अद्यपर्यन्तम्
(xiii) गृहीत्वा
(xiv) दृष्ट्वा
(xv) अतीव प्रसन्ना
(xvi) खादन्
(xvii) तस्याः समक्षे
(xviii) निक्षिप्ताः
(xix) त्यक्तवती
(xx) असन्तुष्टा (उत्कण्ठिता)
(xxi) तुभ्यम्


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत

‘क’ स्तम्भ – ‘ख’ स्तम्भ
(i) वृद्धा – स्वर्णकाकः
(ii) मनोहरा – माता
(iii) कस्मिंश्चिद् – बालिका
(iv) स्वर्णपक्षः – भवनम्
(v) निर्धना – मञ्जूषा
(vi) प्रहर्षिता – सा
(vii) स्वर्णमयम – काकः
(viii) आश्चर्यचकिता – ग्रामे
(ix) प्रबुद्धः – दुहिता
(x) एकाकिनी – माता
(xi) इयत् – स्त्री
(xii) तिस्रः – मूल्यम्

Answer

Answer:
(i) स्त्री
(ii) दुहिता
(iii) ग्रामे
(iv) स्वर्णकाकः
(v) माता
(vi) बालिका
(vii) भवनम्
(viii) सा
(ix) काकः
(x) माता
(xi) मूल्यम्
(xii) मञ्जूषा


We hope the given NCERT MCQ Questions for Class 9 Sanskrit Chapter 2 स्वर्णकाकः with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 9 Sanskrit स्वर्णकाकः MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.


Leave a Comment