MCQ Questions for Class 9 Sanskrit Chapter 11 पर्यावरणम् with Answers

Check the below NCERT MCQ Questions for Class 9 Sanskrit Chapter 11 पर्यावरणम् with Answers Pdf free download. MCQ Questions for Class 9 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided पर्यावरणम् Class 9 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Students can also read NCERT Solutions for Class 9 Sanskrit Chapter 11 Questions and Answers at LearnInsta. Here all questions are solved with a detailed explanation, It will help to score more marks in your examinations.

निम्नवाक्येषु रेखाकित पदानां स्थानेषु प्रश्नवाचक पदं लिखत

Question 1.
प्रकृतिः प्राणिनाम् संरक्षति।
(क) केषाम्
(ख) का
(ग) कः
(घ) काम्

Answer

Answer: (क) केषाम्


Question 2.
प्रकृतिः सुखसाधनैः तर्पयति।
(क) केन
(ख) किमर्थम्
(ग) कैः
(घ) कम्

Answer

Answer: (ग) कैः


Question 3.
पञ्चतत्वानि मिलित्वा पर्यावरणं रचयन्ति।
(क) कानि
(ख) किम्
(ग) कीदृशम्
(घ) कम्

Answer

Answer: (ख) किम्


Question 4.
‘परिष्कृतम्’ पर्यावरणं अस्मभ्यम् जीवनं यच्छति।
(क) किम्
(ख) कीदृशम्
(ग) केन
(घ) कथम्

Answer

Answer: (ख) कीदृशम्


Question 5.
प्रकृतिकोपैः जनः आतङ्कितः भवति।
(क) कीदृशः
(ख) कीदृशम्
(ग) कीदृशेन
(घ) कीदृशाः

Answer

Answer: (क) कीदृशः


Question 6.
‘इन्धनकाष्ठानि‘ बाहुल्येन समुपहरन्ति।
(क) कानि
(ख) काम्
(ग) कम्
(घ) कान्

Answer

Answer: (क) कानि


Question 7.
वृक्षकर्तनात् सङ्कटापन्नो जातः।।
(क) कात्
(ख) कस्मात्
(ग) केन
(घ) कुतः

Answer

Answer: (ख) कस्मात्


Question 8.
यन्त्रागाराणां विषाक्तं जलं नद्याम् पतन्ति।
(क) काम्
(ख) कानाम्
(ग) कासाम्
(घ) केषाम्

Answer

Answer: (घ) केषाम्


Question 9.
पर्यावरणरक्षणं धर्मस्य अङ्ग इति ऋषयः कथयन्ति।
(क) कस्य
(ख) किम्
(ग) कम्
(घ) कः

Answer

Answer: (क) कस्य


Question 10.
शुद्धपर्यावरणं अस्मभ्यम् जीवनं यच्छति।
(क) केभ्यः
(ख) कम्
(ग) किमर्थम्
(घ) काम्

Answer

Answer: (क) केभ्यः


Question 11.
स्वार्थान्धः मानवः अद्य पर्यावरणं नाशयति।
(क) कीदृशः
(ख) कः
(ग) केन
(घ) कम्

Answer

Answer: (क) कीदृशः


Question 12.
पञ्च प्रमुखानि तत्त्वानि सन्ति।
(क) कदा
(ख) कति
(ग) कः
(घ) का

Answer

Answer: (ख) कति


Question 13.
वने ऋषयः वसन्ति स्म?
(क) के
(ख) केन
(ग) कस्मै
(घ) कदा

Answer

Answer: (ख) केन


Question 14.
प्राचीनकाले ऋषयः लोकमङ्गलाशंसिनः आसन्।
(क) कति
(ख) कः
(ग) कदा
(घ) कम्

Answer

Answer: (ग) कदा


Question 15.
भूकम्पैः मानवस्य मङ्गलम् या भवति?
(क) केषाम्
(ख) कथम्
(ग) कैः
(घ) कः

Answer

Answer: (ग) कैः


Question 16.
विहगाः श्रोत्ररसायनं ददति।
(क) कानाम्
(ख) कासाम्
(ग) कति
(घ) के

Answer

Answer: (घ) के


Question 17.
स्वल्पलाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति।
(क) कीदृशानि
(ख) के
(ग) कैः
(घ) का

Answer

Answer: (क) कीदृशानि


निम्नलिखितम् गद्यांशम् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत

प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः सुखसाधनैः च तर्पयति। पृथिवी, जलं, तेजः, वायुः, अकाशः च अस्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आवियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्। यथा अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचार, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति। प्रकृतिकोपैः आतङ्कितो जनः किं कर्तुं प्रभवति? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क्व मङ्गलम्?

Question 1.
प्रकृतिः केषाम् संरक्षणाय यतते?

Answer

Answer: प्राणिनाम्


Question 2.
का विविधैः प्रकारैः सर्वान् पुष्णाति तर्पयति च?

Answer

Answer: प्रकृतिः


Question 3.
प्रकृतिः कैः पोषयति?

Answer

Answer: सुखसाधनैः।


Question 4.
प्रकृतिः कथं रक्षणं करोति?

Answer

Answer: प्रकृतिः यथा अजातः शिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ रक्षणं करोति।


Question 5.
परिष्कृतं प्रदुषणरहितं च पर्यावरणं अस्मभ्यम् किं ददाति?

Answer

Answer: परिष्कृतं प्रदूषणरहित च पर्यावरणं अस्मभ्यम् सांसारिकं जीवनसुखं, सद्विचार, सत्यसंकल्प मांगलिक सामग्रीञ्च प्रददाति।


Question 6.
‘इयं सर्वान् पुष्णाति’ अत्र ‘इयं’ पदम् कस्यै प्रयुक्तम्?

Answer

Answer: प्रकृत्ये


Question 7.
‘शुद्धम्’ इति पदस्य पर्यायपदं गद्यांशे किम् प्रयुक्तम्?

Answer

Answer: परिष्कृतम्


Question 8.
‘प्रददाति’ इति क्रियापदस्य कर्तृपदम् किम् अत्र?

Answer

Answer: पर्यावरणम्


Question 9.
अत्र ‘विविधैः’ इति विशेषणपदस्य विशेष्यपदं किम्?

Answer

Answer: सुखसाधनैः


अत एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। प्राचीनकाले लोकमङ्गलाशंसिनः ऋषयो वने निवसन्ति स्म। यतो हि वने सुरक्षितं पर्यावरणमुपलभ्यते स्म। तत्र विविधा विहगाः कलकूजिश्रोत्ररसायनं ददति। सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति। वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति। शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायु वितरन्ति।

Question 1.
प्रकृतिः केन रक्षणीया?

Answer

Answer: अस्माभिः


Question 2.
के श्रोत्ररसायनं ददति?

Answer

Answer: विहगाः


Question 3.
प्राचीन काले वने के वसन्ति स्म?

Answer

Answer: ऋषयः।


Question 4.
प्राचीनकाले कीदृशाः ऋषयः वने निवसन्ति स्म?

Answer

Answer: प्राचीनकाले लोकमङ्गलाशंसिनः ऋषयः वने निवसन्ति स्म।


Question 5.
निर्मलं जलं के-के प्रयच्छन्ति?

Answer

Answer: सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति।


Question 6.
अत्र ‘आधुनिककाले’ इति पदस्य विपर्ययपदं किम् अस्ति?

Answer

Answer: प्राचीनकाले


Question 7.
‘विविधाः विहगाः’ अनयोः पदयोः अत्र विशेषणपदं किम्?

Answer

Answer: विविधाः


Question 8.
‘सरिता’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: प्रयच्छति


Question 9.
खगाः ‘इति पदस्य पर्यायपदं किम्?’

Answer

Answer: विहगाः


परन्तु स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति। जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथाऽपेयं जायते। मानवाः व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति। तस्मात् अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति। शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जायते एवं हि स्वार्थान्धमानवै विकृतिम् उपगता प्रकृतिः एव तेषां सर्वेषां विनाशकी भवति। विकृतिमुपगते पर्यावरणे विविधाः रोगाः भीषणसमस्याश्च सम्भवन्ति तत्सर्वमिदानी चिन्तनीयं प्रतिभाति।

Question 1.
कीदृशः मानवः अद्य पर्यावरणं नाशयति?

Answer

Answer: स्वार्थान्धः


Question 2.
कस्याः जलम् सर्वथा अपेयं जायते?

Answer

Answer: नद्याः (नदीजलम्)


Question 3.
जनाः किमर्थम् बहुमूल्यानि वस्तूनि नाश्यन्ति?

Answer

Answer: स्वल्पलाभाय।


Question 4.
यन्त्रागाराणां जलं किम् करोति?

Answer

Answer: यन्त्रागाराणां विषाक्तं जलं नद्यां निपात्यते येन मत्स्यादीनां जलचराणां च क्षणेनैव नाशः जायते।


Question 5.
वृक्षकर्तनात् कीदृशः संकटापन्नो जातः?

Answer

Answer: शुद्धवायुरपि वृक्षकर्तनात् संकटापन्नो जातः।


Question 6.
‘बहुलाभाय’ अस्य पदस्य विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: स्वल्पलाभाय


Question 7.
‘भवति’ इति क्रियापदस्य कर्ता कः?

Answer

Answer: प्रकृतिः


Question 8.
‘विविधाः रोगाः’ अनयोः पदयोः अत्र विशेष्यपदं किम्?

Answer

Answer: रोगाः


Question 9.
‘वस्तूनि’ इति विशेष्य पदस्य विशेषणपदं किम् अत्र?

Answer

Answer: बहुमूल्यानि।


धर्मो रक्षति रक्षितः इत्यार्षवचनम्। पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः। अत एव ‘वापीकूपतडागादिनिर्माणं देवायतन-विश्रामगृहादिस्थापनञ्च धर्मसिद्धेः स्रोतो रूपेण अङ्गीकृतम्। कुक्कुर-सूकर-सर्प-नकुलादि-स्थलचराः, मत्स्य-कच्छप-मकरप्रभृतयः जलचराश्च अप रक्षणीयाः, यतः ते स्थलमलानाम् अपनोदिनः जलमलानाम् अपहारिणश्च। प्रकृतिरक्षया एव लोकरक्षा सम्भवति इत्यत्र न संशयः।

Question 1.
‘धर्मो रक्षति रक्षितः’ इति कीदृशम् वचनम्?

Answer

Answer: आर्षवचनम्


Question 2.
पर्यावरणरक्षणं कस्य अङ्गम् इति?

Answer

Answer: धर्मस्य


Question 3.
कः रक्षितः रक्षति?

Answer

Answer: धर्मः।


Question 4.
आर्षवचनम् किम्?

Answer

Answer: ‘धर्मो रक्षति रक्षितः’ इति आर्षवचनम् अस्ति।


Question 5.
स्थलचराः के-के. भवन्ति?

Answer

Answer: कुक्कुर-सूकर-सर्प-नकुल आदयः स्थलचराः भवन्ति।


Question 6.
‘प्रतिपादितवन्तः’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: ऋषयः


Question 7.
अनुच्छेदे ‘लोकरक्षा’ इति कर्तृपदस्यं क्रियापदं किम्?

Answer

Answer: संभवति


Question 8.
अनुच्छेदे ‘स्थलचराः’ इति पदस्य विपर्ययपदं किम्?

Answer

Answer: जलचराः


Question 9.
अत्र ‘ऋषीणां’ इति पदस्य पर्यायपदं किम्?

Answer

Answer: आर्षः।


निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु पर्यायपदम् चित्वा लिखत

‘क’ वर्गः – ‘ख’ वर्गः
1. यतते – कर्णामृतम्
2. कुक्षौ – अधुना
3. परितः – शोचनीयम्
4. परिष्कृतम् – ऋषयः
5. गिरिनिर्झराः – प्रयत्न करोति
6. श्रोत्ररसायनम् – स्वीकृतम्
7. प्राणवायुः – शुद्धम्
8. अपेयम् – पर्वतानां प्रपाताः
9. इदानीम् – गर्भ
10. अवृष्टिः – समन्तात्
11. चिन्तनीयम् – आक्सीजनम्
12. देवायतनम् – पातुम् अयोग्यम्
13. आर्षः – वर्षारहितः
14. अङ्गीकृतम् – देवालयः

Answer

Answer:
1. प्रयत्नं करोति
2. गर्भे
3. समन्तात्
4. शुद्धम्
5. पर्वतानां प्रपाताः
6. कर्णामृतम्
7. आक्सीजनम्,
8. पातुम् अयोग्यम्
9. अधुना
10. वर्षारहितः
11. शोचनीयम्
12. देवालयः
13. ऋषयः
14. स्वीकृतम्।


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः
1. प्रमुखानि – सुखसाधनैः
2. विविधैः – प्रकृतिः
3. इयं – मानवस्य
4. सन्तप्तस्य – विहगाः
5. आतङ्कितः – जलम्
6. विविधाः – वनपवनः
7. निर्मलम् – प्रकृतिः
8. शीतलः – धर्म
9. बहुमूल्यानि – प्राणिनाम्
10. विनाशकी – वस्तुनि
11. रक्षितः – जनः
12. समेषाम् – तत्त्वानि

Answer

Answer:
1. तत्त्वानि
2. सुखसाधनैः
3. प्रकृतिः
4. मानवस्य
5. जनः
6. विहगाः
7. जलम्
8. वनपवनः
9. वस्तूनि
10. प्रकृतिः
11. धर्म:
12. प्राणिनाम्


निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु विलोमपदानि मेलयत

‘क’ वर्गः – ‘ख’ वर्गः
1. जलचराः – पुरा
2. संशयः – पेयम्
3. धर्मः – उपकी
4. रक्षितः – अविषाक्तम्
5. स्वार्थः – असुरक्षितम्
6. अद्य – असत्यम्
7. अपेयम् – असंशयः
8. निर्विवेकम् – परार्थः
9. विनाशकी – अधर्मः
10. विषाक्तम् – स्थलचराः
11. भविष्यति – अरक्षितः
12. प्राचीनकाले – सविवेकम्
13. सुरक्षितम् – आसीत्
14. सद्विचारम् – आधुनिक काले
15. अजातशिशुः – कुविचारम्
16. सत्यम् – जातशिशुः

Answer

Answer:
1. स्थलचराः
2. असंशयः
3. अधर्मः
4. अरक्षितः
5. परार्थः
6. पुरा
7. पेयम्
8. सविवेकम्
9. उपकत्री
10. अविषाक्तम्
11. आसीत्
12. आधुनिक काले
13. असुरक्षितम्
14. कुविचारम्
15. जातशिशुः
16. असत्यम्।


We hope the given NCERT MCQ Questions for Class 9 Sanskrit Chapter 11 पर्यावरणम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 9 Sanskrit पर्यावरणम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.


Leave a Comment