MCQ Questions for Class 10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा with Answers

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the सौहार्दं प्रकृतेः शोभा Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these सौहार्दं प्रकृतेः शोभा objective questions.

सौहार्दं प्रकृतेः शोभा Class 10 MCQs Questions with Answers

Practicing the Class 10 Sanskrit Chapter 7 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of सौहार्दं प्रकृतेः शोभा Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit सौहार्दं प्रकृतेः शोभा MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितान् नाट्यांशान् श्लोकान् च पठित्वा प्रश्नानाम् उत्तराणि लिखत

वनस्य दृश्यम् समीपे एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानराः वारं वारं सिंह तुदन्ति। क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।

Question 1.
‘वहति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) एका
(ख) नदी
(ग) वनस्य
(घ) दृश्यम्

Answer

Answer: (ख) नदी


Question 2.
‘सिंहः तम् प्रह….।’ अस्मिन् वाक्ये ‘तम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) वानरः
(ख) वानराय
(ग) वृक्षाय
(घ) सिंहाय

Answer

Answer: (ख) वानराय


Question 3.
‘वृक्षात्’ इति पदस्य विशेषणपदं किम्?
(क) अन्यस्मात्
(ख) अपर:
(ग) एका
(घ) विविधाः

Answer

Answer: (क) अन्यस्मात्


Question 4.
‘खगाः’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) क्रुद्धः
(ख) पक्षिणः
(ग) सिंहः
(घ) एवैका

Answer

Answer: (ख) पक्षिणः


Question 5.
एकः वानरः कस्य पुच्छ धुनोति?

Answer

Answer: सिंहस्य


Question 6.
के सिंह तुदन्ति?

Answer

Answer: वानराः


Question 7.
विविधाः पक्षिणः किम् कुर्वन्ति?

Answer

Answer: विविधाः पक्षिणः सिंहस्य दशां दृष्ट्वा हर्ष मिश्रितं कलरवं कुर्वन्ति।


काकः – अरे! अरे! किं जल्पसि? यदि अहं कृष्णवर्णः तर्हि त्वं कि गौरागः? अपि च विस्मर्यते किं यत् मम सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा-‘अनृतं वदसि चेत् काकः दशेत्’-इति प्रकारेण। अस्माकं परिश्रमः ऐक्यं च विश्वप्रथितम्। अपि च काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।
पिकः – अलम् अलम् अतिविकत्थनेन। किं विस्मयते यत् काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥

Question 1.
‘सत्यं’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) अनृतं
(ख) प्रथितम्
(ग) ऐक्यं
(घ) अलम्

Answer

Answer: (क) अनृतं


Question 2.
‘ऐक्यं’ इति पदस्य कः अर्थः?
(क) काकः
(ख) कृष्ण
(ग) वर्णः
(घ) एकता

Answer

Answer: (घ) एकता


Question 3.
‘त्वं किं गौराङ्गः?’ अस्मिन् वाक्ये ‘त्वं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) काकाय
(ख) काकः
(ग) पिकाय
(घ) पिकस्य

Answer

Answer: (ग) पिकाय


Question 4.
‘दशेत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) काकः
(ख) चेत्
(ग) अनृतं
(घ) पिकः

Answer

Answer: (क) काकः


Question 5.
केषाम् ऐक्यम् विश्वप्रथितम् अस्ति।

Answer

Answer: काकानाम्


Question 6.
काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?

Answer

Answer: आदर्शः


Question 7.
पिककाकयोः भेदः कदा ज्ञायते?

Answer

Answer: वसन्तसमये प्राप्ते पिककाकयोः भेद: ज्ञायते।


काकः – रे परभृत! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः।
गजः – समीपतः एवागच्छन् अरे! अरे! सर्वं सम्भाषण शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अतः अहमेव योग्यः वनराजपदाय।
वानरः – अरे! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।)

Question 1.
‘अगच्छम्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सर्वा
(ख) वार्ता
(ग) अहम्
(घ) गजः

Answer

Answer: (ग) अहम्


Question 2.
‘अहम् एव करुणापरः…….।’ अस्मिन् वाक्ये अहम् सर्वनामपदं कस्मै प्रयुक्तम्?
(क) काकाय
(ख) गजाय
(ग) वानराय
(घ) काकस्य

Answer

Answer: (ख) गजाय


Question 3.
‘आकर्ण्य’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) योग्यः
(ख) परभृत्
(ग) शुण्डेन
(घ) विधूय

Answer

Answer: (घ) विधूय


Question 4.
‘तुदन्तं’ इति पदस्य विशेष्यपदं किम्?
(क) वन्यपशून्
(ख) जन्तुम्
(ग) जन्तुमहं
(घ) शुण्डेन

Answer

Answer: (क) वन्यपशून्


Question 5.
काकः कस्य सन्ततिं पालयति?

Answer

Answer: पिकस्य


Question 6.
कः पुच्छं विधूय वृक्षोपरि आरोहति?

Answer

Answer: वानरः


Question 7.
गजः किं करिष्यति?

Answer

Answer: गजः वन्यपशून् तुदन्तं जन्तुं स्वशुण्डेन पोथयित्वा मारयिष्यति।


(गजः तं वक्षमेव स्वशुण्डेन आलोडयितुमिच्छति परं वानरस्तु कुर्दित्वा अन्यं वृक्षमारोहति। एवं गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्ट्वा सिंहः अपि हसति वदति च।)
सिंहः – भोः गज! मामप्येवमेवातुदन् एते वानराः।
वानरः – एतस्मादेव तु कथयामि यदहमेव योग्यः वनराजपदाय येन विशालकायं पराक्रमिणं, भयंकरं चापि सिंह गजं वा पराजेतुं समर्था अस्माकं जातिः। अतः वन्यजन्तूनां रक्षायै वयमेव क्षमाः।
(एतत्सर्वं श्रुत्वा नदीमध्यस्थितः एकः बक:)

Question 1.
‘इच्छति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) गजः
(ख) वृक्षम्
(ग) वानरः
(घ) सिंहः

Answer

Answer: (क) गजः


Question 2.
‘वयमेव’ अत्र ‘वयम्’ सर्वनामपदं काभ्याम् प्रयुक्तम्?
(क) वानराभ्याम्
(ख) वानराय
(ग) सिंहाय
(घ) गजाय

Answer

Answer: (क) वानराभ्याम्


Question 3.
‘करी’ इति पदस्य पर्याय पदं किम्?
(क) सिंहः
(ख) गजः
(ग) वानरः
(घ) बकः

Answer

Answer: (ख) गजः


Question 4.
‘एते’ इति पदस्य विशेष्यपदं किम्?
(क) गजः
(ख) माम्
(ग) वानराः
(घ) सिंहः

Answer

Answer: (ग) वानराः


Question 5.
केषाम् जातिः सिंह गजं वा पराजेतुं समर्था अस्ति?

Answer

Answer: वानराणाम्


Question 6.
वानराः कम् अतुदन्?

Answer

Answer: सिंहम्


Question 7.
सिंहः किमर्थं हसति?

Answer

Answer: वानरैः पीडितं गजं वृक्षात् वृक्षं धावन्तं दृष्ट्वा सिंहः हसति।


को न जानाति तव ध्यानावस्थाम्। “स्थितप्रज्ञ’ इति व्याजेन वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि। धिक् त्वाम्। तव कारणात् तु सर्वं पक्षिकुलमेवावमानितं जातम्।
वानरः – (सगर्वम्) अतएव कथयामि यत् अहमेव योग्यः वनराजपदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः।
मयूरः – अरे वानर! तूष्णीं भव। कथं त्वं योग्यः वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवाहं पक्षिराजः कृतः अतः वने निवसन्तं मां वनराजरूपेणापि द्रष्टुं सज्जाः भवन्तु अधुना यतः कथं कोऽप्यन्यः विधातुः निर्णयम् अन्यथाकर्तुं क्षमः।

Question 1.
‘अहमेव योग्यः …….।’ अत्र ‘अहम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) वानराय
(ख) वानरस्य
(ग) मयूराय
(घ) वकाय

Answer

Answer: (क) वानराय


Question 2.
‘भवन्तु’ इति क्रियापदस्य कर्तृपदं किम्?
(क) मम
(ख) तत्पराः
(ग) वन्यजीवाः
(घ) अभिषेकाय

Answer

Answer: (ग) वन्यजीवाः


Question 3.
‘मीनान्’ इति विशेष्य पदस्य विशेषणपदं किम्?
(क) वराकान्
(ख) व्याजेन
(ग) छलेन
(घ) क्रूरतया

Answer

Answer: (क) वराकान्


Question 4.
‘अरण्ये’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) निवसन्तं
(ख) विधात्रा
(ग) सज्जाः
(घ) वने

Answer

Answer: (घ) वने


Question 5.
बकः कान् छलेन क्रूरतया भक्षयति?

Answer

Answer: मीनान्


Question 6.
कस्य कारणात् पक्षिकुलम् अवमानितं जातम्?

Answer

Answer: बकस्य


Question 7.
विधात्रा मयूरः कथं पक्षिराजः कृतः?

Answer

Answer: विधात्रा मयूरस्य शिरसि राजमुकुटमिव शिखां स्थापयता मयूरः पक्षिराजः कृतः।


अधोलिखितवाक्येषु रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत

(i) मम नृत्यं तु प्रकृतेः आराधना।
(ii) वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते।
(iii) तुदन्तं वानरं सिंहः मारयति।
(iv) समीपे एका नदी वहति।
(v) अस्माकम् ऐक्यं विश्वप्रथितम्।
(vi) राज्ञः सुखे प्रजा सुखम् भवति।

Answer

Answer:
(i) मम नृत्यं कस्याः आराधना?
(ii) के भक्षकं रक्षकपदयोग्यं न मन्यन्ते?
(iii) कीदृशं वानरं सिंह: मारयति?
(iv) कुत्र एका नदी वहति?
(v) केषाम् ऐक्यं विश्वप्रथितम्?
(vi) कस्य सुखे प्रजा सुखम् भवति?


अधोलिखितानाम् श्लोकानाम् अन्वयेषु रिक्तपूर्तिं कुरुत

स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।
उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति।।

अन्वयः-स्वभावरौद्रम् (i) …………… क्रूरम् (ii) ……………. उलूकं नृपतिं (iii) ……………. नु का (iv) ……………. भविष्यति।

Answer

Answer:
स्वभावरौद्रम् अत्युग्रं क्रूरम् अप्रियवादिनम् उलूकं नृपतिं कृत्वा नु का सिद्धिः भविष्यति।


यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव।।

अन्वयः- यदि सम्यनेता (i) …………. न (ii) …………… ततः इह प्रजा (iii) ………….. नौः (iv)…………. जलधौ विप्लवेत।

Answer

Answer:
यदि सम्यङ्नेता नरपतिःस्यात् ततः इह प्रजा अकर्णधारा नौः इव जलधौ विप्लवेत।


प्राणिनां जायते हानिः परस्परविवादतः।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते।।

अन्वयः- परस्परविवादः (i) …………….. हानिः (ii) ……………. । अन्योन्यसहयोगेन (iii) ……………. लाभ: (iv) …………….

Answer

Answer:
परस्परविवादः प्राणिनां हानिः जायते। अन्योन्यसहयोगेन तेषाम् लाभः प्रजायते


अगाधजलसञ्चारी न गर्वं याति रोहितः।
अङ्गुष्ठोदकमात्रेण शफरी फुफुरायते।।

अन्वयः- अगाधजलसञ्चारी (i) …………. गर्व न (ii) …………….. । अङ्गुष्ठ (iii) ………………. शफरी (iv) …………….

Answer

Answer:
अगधजलसञ्चारी रोहितः गर्व न याति। अङ्गुष्ठ उदकमात्रेण शफरी फुफुरायते


अधोलिखिते श्लोके भावं उपयुक्तपदैः पूरयत

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥

भावार्थ:- काकस्य वर्णः कृष्णः (i) ………………… अपि वर्ण: (ii) ………………… । अनयोः मध्ये कः (iii) ……………. न अस्ति। परम् वसन्तसमये पिकस्य (iv) ………….. भेदः ज्ञायते।

Answer

Answer: (i) पिकस्य, (ii) कृष्णः, (iii) भेदः, (iv) मधुरस्वरेण


यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥

भावार्थ:- प्रजायाः कल्याणार्थ (i) ……………. श्रेष्ठः भवितुम् अनिवार्यः अस्ति यथा (ii) …………… समुद्रं (iii) ……………….. कर्णधार: (iv) ……………….. भवेत।

Answer

Answer: (i) नृपः, (ii) नौकया, (iii) पारयितुम्, (iv) निपुणः


प्राणिनां जायते हानिः परस्परविवादतः।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते॥

भावार्थ:-अस्य श्लोकस्य भावः अस्ति यत् परस्परम् (i) …………………. प्राणिनां हानिः एव भवति। स्नेहेन (ii) …………….. च (iii) …………… विकासः हितं (iv) ……….. च जायते।

Answer

Answer: (i) कलहेन, (ii) सहयोगेन, (iii) सर्वेषां, (iv) लाभः


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) विविधा पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।
(ii) तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति।
(iii) एकः सिंहः सुखेन विश्राम्यते तदैव एक वानरः आगत्य तस्य पुच्छ धुनोति।
(iv) एवमेव वानराः वारं वारं सिंहम् तुदन्ति।
(v) क्रुद्धः सिंहः तं प्रहर्तुमिच्छति।
(vi) क्रुद्ध सिंहः इतस्ततः धावति गर्जति च।
(vii) तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
(viii) परम् किमपि कर्तुमसमर्थः एव तिष्ठति।

Answer

Answer:
(i) एकः सिंहः सुखेन विश्राम्यते तदैव एक वानरः आगत्य तस्य पुच्छं धुनोति।
(ii) क्रुद्धः सिंहः तं प्रहर्तुमिच्छति।
(iii) तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
(iv) एवमेव वानराः वारं वारं सिंहम् तुदन्ति।
(v) क्रुद्ध सिंहः इतस्ततः धावति गर्जति च।
(vi) परम् किमपि कर्तुमसमर्थः एव तिष्ठति।
(vii) विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।
(viii) तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति।


अधोलिखितवाक्येषु रेखांकितपदानाम् कृते उचितम् अर्थं चित्वा लिखत

Question 1.
अनृतं वदसि चेत् काकः दशेत्।
(क) यदि
(ख) अपि
(ग) तथापि
(घ) कदा

Answer

Answer: (क) यदि


Question 2.
अस्माकं ऐक्यं विश्वप्रथितम्।
(क) मित्रं
(ख) एकता
(ग) लघु
(घ) कनिष्ठः

Answer

Answer: (ख) एकता


Question 3.
अहम् तव सन्ततिं पालयामि।
(क) समानम्
(ख) पुत्री
(ग) पुत्रं
(घ) सन्तानं

Answer

Answer: (घ) सन्तानं


Question 4.
बकः क्रूरतया वराकान् मीनान् भक्षयति।
(क) कमनीयम्
(ख) विशालम्
(ग) तुच्छम्
(घ) दयनीयम्

Answer

Answer: (घ) दयनीयम्


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

भक्षकः, हितं, जलधौ, रसमयं, लाभाः
पदानि – विलोमपदानि
(i) हानिः – …………..
(ii) अहितं – …………..
(iii) आकाशे – …………….
(iv) रक्षकः – …………….
(v) नीरसं – ………………

Answer

Answer:
पदानि – विलोमपदानि
(i) हानिः – लाभाः
(ii) अहितं – हितं
(iii) आकाशे – जलधौ
(iv) रक्षकः – भक्षक:
(v) नीरसं – रसमयम्


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit सौहार्दं प्रकृतेः शोभा MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

Leave a Comment