MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the शिशुलालनम् Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these शिशुलालनम् objective questions.

शिशुलालनम् Class 10 MCQs Questions with Answers

Practicing the Class 10 Sanskrit Chapter 4 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of शिशुलालनम् Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit शिशुलालनम् MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितान् नाट्यांशान् पठित्वा प्रश्नानाम् उत्तरत

(सिंहासनस्थः रामः। ततः प्रविशतः विदूषकंनोपदिश्यमानमार्गों तापसौ कुशलवी)

विदूषकः – इत इत आर्यो!
कुशलवौ – (रामम् उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य?
रामः – युष्मदर्शनात् कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव, न पुनरतिथिजनसमुचितस्य कण्ठाश्लेषस्य। (परिष्वज्य ) अहो हृदयग्राही स्पर्शः।
(आसनार्धमुपवेशयति)
उभौ – राजासनं खल्वेतत्, न युक्तमध्यासितुम्।
रामः – सव्यवधानं न चारित्रलोपाय। तस्मादक-व्यवहितमध्यास्यतां सिंहासनम्।

Question 1.
‘भवतोः’ इति सर्वनामपदं काभ्यां प्रयुक्तम्?
(क) कुशलवाभ्याम्
(ख) कुशलवौ
(ग) रामौ
(घ) उभौ

Answer

Answer: (क) कुशलवाभ्याम्


Question 2.
‘पात्रम्’ इति पदस्य पर्यायपदं किम्?
(क) इतर
(ख) भाजनम्
(ग) आसनं
(घ) अङ्क

Answer

Answer: (ख) भाजनम्


Question 3.
‘कुशलवौ’ इति कर्तृपदस्य क्रियापदं किम्?
(क) तापसौ
(ख) मार्गों
(ग) उपदिश्यमान
(घ) प्रविशतः

Answer

Answer: (घ) प्रविशतः


Question 4.
‘हृदयग्राही’ इति पदस्य विशेष्यपदं किम्?
(क) अहो
(ख) स्पर्शः
(ग) कण्ठ
(घ) आश्लेषस्य

Answer

Answer: (ख) स्पर्शः


Question 5.
विदूषकेन सह कौ प्रविशत:?

Answer

Answer: लवकुशौ


Question 6.
सिंहासनस्थः कः अस्ति?

Answer

Answer: रामः


Question 7.
किं चारित्रलोपाय न भवति?

Answer

Answer: सव्यवधानं चारित्रलोपाय न भवति।


रामः – एषः भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयोः सूर्यचन्द्रयोः को वा भवतोवंशस्य कर्ता?
लवः – भगवन् सहस्त्रदीधितिः।
रामः – कथमस्मत्समानाभिजनौ संवृत्तौ?
विदूषकः – किं द्वयोरप्येकमेव प्रतिवचनम्?
लवः – भ्रातरावावां सोदर्यो।
रामः – समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।
लवः – आवां यमलौ।
रामः – सम्प्रति युज्यते। किं नामधेयम्?

Question 1.
‘आवा’ इति सर्वनामपदं काभ्याम् प्रयुक्तम्?
(क) रामौ
(ख) लवकुशाभ्याम्
(ग) रामाभ्याम्
(घ) विदुषकाभ्याम्

Answer

Answer: (ख) लवकुशाभ्याम्


Question 2.
‘सोद?’ इति विशेष्यपदं किम्?
(क) भ्रातरौ
(ख) भ्राता
(ग) यमलौ
(घ) भ्रातः

Answer

Answer: (क) भ्रातरौ


Question 3.
‘आयोः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) युज्यते
(ख) समरूपः
(ग) वयसः
(घ) वयसस्तु

Answer

Answer: (ग) वयसः


Question 4.
‘प्रश्न’ इति पदस्य विपरीतार्थकम् पदम् किम्?
(क) प्रतिवचनम्
(ख) एकमेव
(ग) समरूपः
(घ) नामधेयम्

Answer

Answer: (क) प्रतिवचनम्


Question 5
को यमलौ स्तः?

Answer

Answer: लवकुशौ


Question 6.
कुशलवयोः वंशस्य कर्ता कः?

Answer

Answer: भगवन् सहस्रदीधितिः


Question 7.
रामः लवकुशौ किम् पृच्छति?

Answer

Answer: रामः लवकुशौ पृच्छति यत् क्षत्रियकुलपितामहयोः सूर्यचन्द्रयोः को वा तयोः वंशस्य कर्ता अस्ति।


लवः – आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरणवन्दनायाम् ……
कुशः – अहमपि कुश इत्यात्मानं श्रावयामि।
रामः – अहो! उदात्तरम्यः समुदाचारः किं नामधेयो भवतोर्गुरुः?
लवः – ननु भगवान् वाल्मीकिः।
रामः – केन सम्बन्धेन?
लवः – उपनयनोपदेशेन।

Question 1.
‘अहमपि ….. श्रावयामि’ अस्मिन् वाक्ये ‘श्रावयामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अहम्
(ख) अहमपि
(ग) कुशं
(घ) आत्मानम्

Answer

Answer: (क) अहम्


Question 2.
‘समुदाचारः’ इति पदस्य विशेषणपदं किम्?
(क) अहो!
(ख) उदात्त
(ग) रम्यः
(घ) उदात्तरम्यः

Answer

Answer: (घ) उदात्तरम्यः


Question 3.
‘अहमपि’ अत्र ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) लवाय
(ख) कुशाय
(ग) रामाय
(घ) कुशः

Answer

Answer: (ख) कुशाय


Question 4.
‘शिष्टाचारः’ इति पदस्य पर्यायः कः?
(क) उदात्त
(ख) रम्यः
(ग) समुदाचारः
(घ) भवतोः

Answer

Answer: (ग) समुदाचारः


Question 5.
वाल्मीकिः कयोः गुरुः आसीत्?

Answer

Answer: लवकुशयोः


Question 6.
कीदृशः समुदाचारः?

Answer

Answer: उदात्तरम्यः


Question 7.
केन सम्बन्धेन वाल्मीकिः कुशलवयोः गुरुः आसीत्?

Answer

Answer: उपनयनोपदेशेन वाल्मीकिः कुशलवयोः गुरु आसीत्।


कुशः – यद्यावयोर्बालभावजनितं किञ्चिदविनयं पश्यति तदा एवम् अधिक्षिपति-निरनुक्रोशस्य पुत्रौ, मा चापलम् इति।
विदूषकः – एतयोर्यदि पितुर्निरनुक्रोश इति नामधेयम् एतयोर्जननी तेनावमानिता निर्वासिता एतेन वचनेन दारको निर्भर्त्सयति।
रामः – (स्वगतम्) धिङ् मामेवंभूतम्। सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेवं मन्युग:रक्षरैर्निर्भर्त्सयति। (सवाष्पमवलोकयति)

Question 1.
‘सा तपस्विनी’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) निर्भर्त्सयति
(ख) मन्युः
(ग) मत्कृते
(घ) अक्षरैः

Answer

Answer: (क) निर्भर्त्सयति


Question 2.
‘माम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) लवाय
(ख) कुशाय।
(ग) रामाय
(घ) विदूषकाय

Answer

Answer: (ग) रामाय


Question 3.
‘वचनेन’ इति पदस्य विशेषणपदं किम्?
(क) एतेन
(ख) निर्वासिता
(ग) दारको
(घ) तेन

Answer

Answer: (क) एतेन


Question 4.
‘दारकौ’ इति पदस्य कः अर्थः?
(क) बालकौ
(ख) जनौ
(ग) तापसौ
(घ) पुत्रौ

Answer

Answer: (घ) पुत्रौ


Question 5.
कयोः जननी निर्वासिता?

Answer

Answer: लवकुशयोः


Question 6.
जननी केन अवमानिता?

Answer

Answer: जनकेन (पित्रा)


Question 7.
जननी कदा कथम् च पुत्रौ अधिक्षिपति?

Answer

Answer: जननी यदा लवकुशयोः बालभावजनितं किञ्चित् अविनयं पश्यति तदा ‘निरनुक्रोशस्य पुत्रौ’ इति कथयित्वा अधिक्षिपति।


लवः – तपोवनवासिनो देवीति नाम्नायन्ति, भगवान् वाल्मीकिर्वधूरिति।
रामः – अपि च इतस्तावद् वयस्य! मुहूर्त्तमात्रम्।
विदूषकः – (उपसृत्य) आज्ञापयतु भवान्।
रामः – अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः?
(नेपथ्ये)
इयती बेला सञ्जाता रामायणगानस्य नियोगः किमर्थं च विधीयते?
उभौ – राजन्! उपाध्यायदूतोऽस्मान् त्वरयति।

Question 1.
‘आह्वयन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) देवी
(ख) तपोवनवासिनः
(ग) नाम्ना
(घ) सर्वथा

Answer

Answer: (ख) तपोवनवासिनः


Question 2.
‘कुमारयोः’ इति विशेष्यपदस्य विशेषणपदं किम्?
(क) अनयोः
(ख) अस्माकं
(ग) समरूपः
(घ) वासिनः

Answer

Answer: (क) अनयोः


Question 3.
‘अध्यापकः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) उपाध्यायः
(ख) नियोगः
(ग) समरूपः
(घ) भगवान्

Answer

Answer: (क) उपाध्यायः


Question 4.
‘भवान्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) लवाय
(ख) रामाय
(ग) विदूषकाय
(घ) कुशाय

Answer

Answer: (ख) रामाय


Question 5.
कुशलवयोः मातरम् वाल्मीकि: केन नाम्ना आह्वयति?

Answer

Answer: वधूः


Question 6.
कस्य बेला सञ्जाता?

Answer

Answer: रामायणगानस्य


Question 7.
केषाम् कुटुम्बवृत्तान्तः समरूपः अस्ति?

Answer

Answer: लवकुशयोः रामस्य च कुटुम्बवृत्तान्तः समरूपः अस्ति।


रेखाङ्कितपदम् आधृत्य प्रश्ननिर्माणं कुरुत

(क) कुशलवौ रामं प्रणमत:।
(ख) रामः कुशलवौ अङ्कम् उपवेशयति।
(ग) हिमकरः बालभावात् शिवमस्तके शोभते।
(घ) उदात्तरम्यः समुदाचारः।
(ङ) अतिदीर्घः दारुणः च अयं प्रवासः
(च) अयम् अपूर्वः मानवानां सरस्वत्यवतारः।

Answer

Answer:
(क) को रामं प्रणमतः?
(ख) रामः कुशलवौ कुत्र उपवेशयति?
(ग) हिमकरः बालभावात् कुत्र शोभते?
(घ) कीदृशः समुदाचारः?
(ङ) अतिदीर्घः दारुण च अयं कः?
(च) अयम् अपूर्वः केषाम् सरस्वत्यवारः।


अधोलिखितश्लोकयोः अन्वययोः रिक्तस्थानपूर्ति कुरुत

भवति शिशुजनो वयोऽनुरोधाद्
गुणमहतामपि लालनीय एव।
व्रजति हिमकरोऽपि बालभावात्
पशुपति-मस्तक-केतकच्छदत्वम्।।

अन्वयः- गुणमहताम् अपि (i) ……………. शिशुजनः लालनीयः (ii) …………….. अस्ति। बालभावात् हि (iii) …………. अपि पशुपति-मस्तक (iv) …………….. वज्रति।

Answer

Answer: गुणमहताम् अपि वयोऽनुरोधाद् शिशुजनः लालनीयः एव अस्ति। बालभावात् हि हिमकरः अपि पशुपति-मस्तक केतकच्छदत्वम् वज्रति।


भवन्तौ गायन्तौ कविरपि पुराणो व्रतनिधिर्
गिरां सन्दर्भोऽयं प्रथममवतीर्णो वसुमतीम्।
कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं,
पुनाति श्रोतारं रमयति च सोऽयं परिकरः।।

अन्वयः- भवन्तौ गायन्तौ, पुराणः (i) ……………. कविः अपि, वसुमतीम् प्रथमम् (ii) …………… गिराम् अयम् संदर्भः, (iii) …………….. च इय श्लाघ्या कथा, सः च अयं (iv) ………………. नियतं श्रोतारं पुनाति रमयति च।

Answer

Answer: भवन्तौ गायन्तौ, पुराणः व्रतनिधिः कविः अपि, वसुमतीम् प्रथमम् अवतीर्णः गिराम् अयम् संदर्भः, सरसिरुहनाभस्य च इय श्लाघ्या कथा, सः च अयं परिकरः नियतं श्रोतारं पुनाति रमयति च।


अधोलिखितयोः कथनयो भावार्थं मञ्जूषातः समुचितपदानि चित्वा पूरयत

(क) ‘अपूर्वोऽयं मानवानां सरस्वत्यवतारः।’

मञ्जूषा- अपूर्वः, पवित्रं, गानं, सरस्वत्यः
रामायणस्य (i) ……….. श्रुत्वा रामः कथयति यत् इयम् श्लाघ्या कथा श्रोतारं प्रसीदति (ii) …………………” च करोति एवं अयं (iii) ……………….” ग्रन्थः मानवानाम् कृते धरातले (iv) ………………… अवतारः एव।

Answer

Answer: (i) गानं, (ii) पवित्रं, (iii) अपूर्वः, (iv) सरस्वत्यः


(ख) “भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव।”

भावार्थ:- कुशलवौ रामम् उपसृत्य (i) …………… च तस्य (ii) ……………. पृच्छतः। तदा राम कथयति यत् किं सः (iii) ……………. पात्रम् एव यतः रामः तु स्वपुत्रौ (iv) …………… कर्तुम् वाञ्छति।
मञ्जूषा- आलिङ्गनं, कुशलप्रश्नस्य, प्रणम्य, कुशलं

Answer

Answer: (i) प्रणम्य, (ii) कुशलं, (iii) कुशलप्रश्नस्य, (iv) आलिङ्गनं


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि

1. अहमत्रभवतोः जनकं नामतो वेदितुमिच्छामि।।
2. तपोवनवासिनः देवीति नाम्नाह्वयन्ति, भगवान् वाल्मीकिः वधूरिति।
3. आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि।
4. अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्त?
5. तस्मादक-व्यवहितमध्यास्तां सिंहासनम्।
6. क्षत्रियकुलपितामहयोः सूर्यचन्द्रयोः को वा भवतोः वंशस्य कर्ता?
7. ततः तापसौ कुशलवौ प्रविशतः।
8. भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव।

Answer

Answer:
1. ततः तापसौ कुशलवौ प्रविशतः।
2. भवतो: किं वयमत्र कुशलप्रश्नस्य भाजनम् एव।
3. तस्मादक-व्यवहितमध्यास्तां सिंहासनम्।
4. क्षत्रियकुलपितामहयोः सूर्यचन्द्रयोः को वा भवतोः वंशस्य कर्त्ता?
5. आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि।
6. अहमत्रभवतोः जनकं नामतो वेदितुमिच्छामि।
7. तपोवनवासिनः देवीति नाम्नाह्वयन्ति, भगवान् वाल्मीकिः वधूरिति।
8. अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः।


रेखाकितपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थ चित्वा लिखत

Question 1.
सोऽयं परिकरः श्रोतारं पुनाति
(क) पिपासा
(ख) दृष्टम्
(ग) पश्यति
(घ) पवित्रं करोति

Answer

Answer: (घ) पवित्रं करोति


Question 2.
सरसिरुहनाभस्य इयं श्लाघ्या कथा
(क) प्रशंसनीया
(ख) शंसयति
(ग) प्रशंसनीयः
(घ) आत्मना

Answer

Answer: (क) प्रशंसनीया


Question 3.
किं द्वयोः अपि एकमेव प्रतिवचनम्
(क) प्रत्यक्षं
(ख) उत्तरं
(ग) प्रतिक्षणं
(घ) प्रतिदिनम्

Answer

Answer: (ख) उत्तरं


Question 4.
किं कुपिता एव भणति
(क) भक्ष्यति
(ख) कुद्धयति
(ग) कथयति
(घ) हसति

Answer

Answer: (ग) कथयति


Question 5.
भ्रातरौ आवाम् सोदयौं।
(क) सहोदरौ
(ख) रमणीयौ
(ग) सुन्दरौ
(घ) उत्तमौ

Answer

Answer: (क) सहोदरौ


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

शत्रुः, लघुताम्, दिनकरः, प्रश्नम्, अपसृत्य
पदानि – विलोम पदानि
(i) हिमकरः – ……………….
(ii) वयस्य – ……………….
(iii) प्रतिवचनम् – ……………….
(iv) महताम् – ……………….
(v) उपसृत्य – ……………….

Answer

Answer:
पदानि – विलोम पदानि
(i) हिमकरः – दिनकरः
(ii) वयस्य – शत्रुः
(iii) प्रतिवचनम् – प्रश्नम्
(iv) महताम् – लघुताम्
(v) उपसृत्य – अपसृत्य


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit शिशुलालनम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

Leave a Comment