MCQ Questions for Class 10 Sanskrit Chapter 12 अनयोक्त्यः with Answers

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 12 अनयोक्त्यः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the अनयोक्त्यः Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these अनयोक्त्यः objective questions.

अनयोक्त्यः Class 10 MCQs Questions with Answers

Practicing the Class 10 Sanskrit Chapter 12 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of अनयोक्त्यः Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit अनयोक्त्यः MCQ Multiple Choice Questions with Answers PDF.

निम्नलिखितान् श्लोकान् पठित्वा तदाधारितानां प्रश्नानामुत्तराणि लिखत

एकेन राजहंसेन या शोभा सरसो भवेत।
न सा बकसहस्रेण परितस्तीरवासिना॥

Question 1.
कति राजहंसेन सरसः शोभा भवति?

Answer

Answer: एकेन


Question 2.
केन सरसः शोभा भवति?

Answer

Answer: राजहंसेन


Question 3.
केन सरसः शोभा न भवति?

Answer

Answer: परितः तीरवासिना बकसहस्रेण सरसः शोभा न भवति।


Question 4.
‘एकेन राजहंसेन’ अनयोः पदयोः विशेषणपदं किमस्ति?

Answer

Answer: एकेन


Question 5.
श्लोकस्य ‘शोभा’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: भवेत्


Question 6.
श्लोके ‘सा’ इत्यस्य विशेषणस्य विशेष्यः कः?

Answer

Answer: शोभा


भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि।
रे राजहंस! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः॥

Question 1.
‘यत्र भवता मृणालपाटली भुक्ता’। अत्र कर्तृपदं किम्?
(क) यत्र
(ख) भवता
(ग) भुक्ता
(घ) मृणालपाटली

Answer

Answer: (ख) भवता


Question 2.
श्लोके ‘केन कृत्येन’ अतयोः पदयोः विशेषणपदं किमस्ति?
(क) केन
(ख) किम्
(ग) कृत्येन
(घ) कृत्यम्

Answer

Answer: (क) केन


Question 3.
अस्मिन् श्लोके ‘जलानि’ पदस्य कः पर्यायः आगतः?
(क) नलिनानि
(ख) निपीतानि
(ग) अम्बूनि
(घ) निषेवितानि

Answer

Answer: (ग) अम्बूनि


Question 4.
राजहंसः कां भुनक्ति?

Answer

Answer: मृणालपाटलीम्


Question 5.
कः सरोवरस्य कृतोपारकः भवति?

Answer

Answer: राजहंसः सरोवरस्य कृतोपकारकः भवति।


तोयैरल्यैरपि करुणया भीमभानौ निदाघे,
मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां,
धारासारानपि विकिरता विश्वतो वारिदेन॥

Question 1.
कः भीमभानौ निदाघे तरोः पुष्टिम् व्यरचयति?

Answer

Answer: मालाकारः


Question 2.
मालाकारः कति जलैः तरोः पुष्टिं करोति?

Answer

Answer: अल्पैः।।


Question 3.
वारिदेन का कर्तम् न शक्या अस्ति?

Answer

Answer: वारिदेन इह जनयितुं पुष्टिं कर्तुं न शक्या अस्ति।


Question 4.
श्लोके ‘तोयैः’ इति विशेष्य पदस्य विशेषणं किमस्ति?

Answer

Answer: अल्पैः


Question 5.
‘भवता करुणया अस्य …….. अत्र ‘भवता’ पदं कस्मै आगतम्?

Answer

Answer: मालाकाराय


Question 6.
अस्मिन् श्लोके ‘वृक्षस्य’ इति पदस्य कः पर्यायः आगतः?

Answer

Answer: तरोः


आपेदिरेऽम्बरपथं परितः पतङ्गाः,
भृङ्गा रसालमुकुलानि समाश्रयन्ते।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमां गतिमभ्युपैतु॥

Question 1.
श्लोके ‘कतमां गतिम्’ पदयोः कः विशेष्यः वर्तते?
(क) गतिः
(ख) कतमा
(ग) कतमां
(घ) गतिम्

Answer

Answer: (घ) गतिम्


Question 2.
अत्र श्लोके ‘आपेदिरे’ इति क्रियायाः कर्तृपदं किम्?
(क) परितः
(ख) पतङ्गाः
(ग) अम्बरपथम्
(घ) पथम्

Answer

Answer: (ख) पतङ्गाः


Question 3.
‘सरः त्वयि सङ्कोचम्’। अत्र ‘त्वयि’ पदं कस्मै आगतम्?
(क) सरसे
(ख) मीनाय
(ग) भृङ्गेभ्यः
(घ) पतङ्गेभ्यः

Answer

Answer: (क) सरसे


Question 4.
परितः पतङ्गाः कुत्र (कम्) आपेदिरे?

Answer

Answer: अम्बरपथम्


Question 5.
के रसालमुकुलानि समाश्रयन्ते?

Answer

Answer: भृङ्गाः


Question 6.
सरः सङ्कोचम् अञ्चति कः कतमां गतिम् अभ्युपैतु?

Answer

Answer: सरः सङ्कोचम् अञ्चति दीनदीनः मीनः कतमा गतिम् अभ्युपैतु।


एक एव खगो मानी वने वसति चातकः।
पिपासितो वा म्रियते याचते वा पुरन्दरम्॥

Question 1.
चातकः कीदृशः खगः वर्तते?

Answer

Answer: मानी


Question 2.
कः वने वसति?

Answer

Answer: चातक:


Question 3.
कीदृशः चातकः म्रियते?

Answer

Answer: पिपासितः चातक: म्रियते।।


Question 4.
‘मानी’ इति विशेषणस्य कः विशेष्य श्लोके आगतोऽस्ति?

Answer

Answer: खगः


Question 5.
श्लोके ‘म्रियते’ इत्यस्य क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: चातकः


Question 6.
अत्र श्लोके ‘नश्यति’ इत्यस्य कः पर्यायः आगतः?

Answer

Answer: म्रियते


आश्वास्य पर्वतकुलं तपनोष्णतप्त
मुद्दामदावविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः॥

Question 1.
श्लोके ‘सा’ पदं कस्मै आगतम्?
(क) श्रियै
(ख) उत्तमायै
(ग) जलदाय
(घ) काननेभ्यः

Answer

Answer: (क) श्रियै


Question 2.
अत्र श्लोके ‘पर्वतकुलम्’ इत्यस्य विशेष्यस्य विशेषणपदं किम्?
(क) तप्तम्
(ख) उष्णम्
(ग) तपनोष्णतप्तम्
(घ) तपनम्

Answer

Answer: (ग) तपनोष्णतप्तम्


Question 3.
‘असि तव सा एव।’ अत्र ‘तव’ पदं कं प्रति सङ्केतयति?
(क) जलदम्
(ख) श्रियम्
(ग) पर्वतकुलम्
(घ) काननम्

Answer

Answer: (क) जलदम्


Question 4.
अस्मिन् श्लोके कं संबोधनं कृतम्?

Answer

Answer: जलदम्


Question 5.
जलदः कीदृशं पर्वतकुलम् आश्वासयति?

Answer

Answer: तपनोष्णतप्तम्।


Question 6.
जलदः कानि पूरयित्वा स्वयं रिक्तो भवति?

Answer

Answer: जलद: नानानदीनदशतानि पूरयित्वा स्वयं रिक्तो भवति।


रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता
मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः॥

Question 1.
अस्मिन् श्लोके कविः कं सम्बोधयति?

Answer

Answer: चातकम्


Question 2.
के वृष्टिभिः वसुधाम् आर्द्रयन्ति?

Answer

Answer: अम्भोदाः


Question 3.
गगने हि बहवः के सन्ति?

Answer

Answer: गगने हि बहवः अम्भोदाः सन्ति।


Question 4.
‘त्वं दीनं वचः मा ब्रूहि’। अत्र क्रियापदं किम्?

Answer

Answer: ब्रूहि


Question 5.
‘बहव अम्भोदाः’ अनयोः पदयोः विशेषणपदं किम्?

Answer

Answer: बहवः


Question 6.
श्लोके ‘समक्षम्’ इत्यस्य पदस्य कः पर्यायः आगतोऽस्ति?

Answer

Answer: पुरतः


अधोलिखितानां श्लोकानाम् अन्वयं मञ्जूषायाः उचितैः पदैः सम्पूर्य लिखत

एकेन राजहंसेन या शोभा सरसो भवेत्।
न सा बकसहस्त्रेण परितस्तीरवासिना॥

अन्वयः- एकेन (i) ……………… सरस: या (ii) ……………. भवेत्। परतिः (ii) …………….. बकसहस्रेण (iv) …………… (शोभा) न (भवति)।।
मञ्जूषा- शोभा, सा, राजहंसेन, तीरवासिना |

Answer

Answer: (i) राजहंसेन (ii) शोभा (iii) तीरवासिना (iv) सा


भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि।
रे राहजंस! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः॥

अन्वयः- (रे राजहंस!) यत्र भवता (i) …………… भुक्ता, अम्बूनि निपीतानि (ii) …………… निषेवितानि। रे राजहंस! तस्य (iii) …………………….. (भवतः) केन कृत्येन (iv) ………………… भविता असि, वद।
मञ्जूषा- सरोवरस्य, मृणालपटली, कृतोपकारः, नलिनानि

Answer

Answer: (i) मृणालपटली (ii) नलिनानि (iii) सरोवरस्य (iv) कृतोपकारः


तोयैरल्पैरपि करुणया भीमभानौ निदाघे,
मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां,
धारासारानपि विकिरता विश्वतो वारिदेन॥

अन्वयः-हे मालाकार! (i) ………………… निदाघे अल्पैः तोयैः अपि भवता (ii) …………… अस्य तरोः या पुष्टिः व्यरचि। वाराम् (iii) ……………. विश्वतः धारासारान् अपि विकिरता (iv) …………….. इह जनयितुम् सा किं शक्या?
मञ्जूषा- वारिदेन, करुणया, भीमभानौ, प्रावृषेण्येन

Answer

Answer: (i) भीमभानौ (ii) करुणया (iii) प्रावृषेण्येन (iv) वारिदेन


आपेदिरेऽम्बरपथं परितः पतङ्गाः,
भृङ्गा रसालमुकुलानि समाश्रयन्ते।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमां गतिमभ्युपैतु॥

अन्वयः- पतङ्गाः परतिः (i) ……………….. आपेदिरे, (ii) ………………. रसालमुकुलानि सामश्रयन्ते। सरः (iii) ………………. सङ्कोचम् अञ्चति, हन्तः (iv) …………… मीनः नु कतमां गतिम् अभ्युपैतु।
मञ्जूषा- अम्बरपथम्, दीनदीनः, भृङ्गाः, त्वयि

Answer

Answer: (i) अम्बरपथम् (ii) भृङ्गाः। (iii) त्वयि (iv) दीनदीनः


एक एव खगो मानी वने वसति चातकः।
पिपासितो वा म्रियते याचते वा पुरन्दरम्॥

अन्वयः एकः एव (i) ……………. खगः चातकः (ii) ……………….. वसति। वा (iii) ………………. म्रियते (iv) ……………… याचते वा।
मञ्जूषा- वने, पिपासितः, मानी, पुरन्दरम्

Answer

Answer: (i) मानी (ii) वने (iii) पिपासितः (iv) पुरन्दरम्


आश्वास्य पर्वतकुलं तपनोष्णतप्त
मुद्दामदावविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः॥

अन्वयः- (i) ……………. पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि (ii) ……………. नानानदीनदशतानि (iii) ……………… च, हे जलद! यत् रिक्त असि तव सा एव (iv) …………….. (अस्ति)।
मञ्जूषा- काननानि, तपनोष्णतप्तम्, उत्तमा, पूरयित्वा

Answer

Answer: (i) तपनोष्णतप्तम् (ii) काननानि (iii) पूरयित्वा (iv) उत्तमा


रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता
मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः॥

अन्वयः- रे रे मित्र चातक! (i) ……………… क्षणं श्रूयताम् गगने हि बहवः (ii) ……………….. सन्ति, सर्वे अपि एतादृशाः न (सन्ति)। केचिद् (iii) ……………….. वृष्टिभिः आर्द्रयन्ति, केचित् (च) वृथा गर्जन्ति, यं यम् पश्यसि तस्य तस्य (iv) …………….. दीनं वचः मा ब्रूहि।।
मञ्जूषा- पुरतः, अम्भोदाः, सावधानमनसा, वसुधां

Answer

Answer: (i) सावधानमनसा (ii) अम्भोदाः (iii) वसुधां (iv) पुरतः


निम्नलिखितानि श्लोकानि पठित्वा मञ्जूषायाः सहायतया तेषां भावपूर्तिं कृत्वा लिखत

एकेन राजहंसेन या शोभा सरसो भवेत्।
न सा बकसहस्रेण परितस्तीरवासिना॥

भावार्थ:- अस्य भावोऽस्ति यत् सरसः या (i) ……………. एकेन राजहंसेन भवति सा एव शोभा तस्य तीरे वसता (ii) …………….. अपि न भविष्यति तथैव एकेनापि (iii) …………….. समाजस्य देशस्य वा या शोभा भवति सा तु (iv) …………… अपि भवितुं कदापि न शक्नोति।
मञ्जूषा- मूर्खसहस्रेण, शोभा, बकसहस्रेण, सज्जनेन (विदुषा)

Answer

Answer: (i) शोभा (ii) बकसहस्रेण (iii) सज्जनेन (विदुषा) (iv) मूर्खसहस्रेण


भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि।
रे राहजंस! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः॥

भावार्थ:- अस्य भावोऽस्ति यत् हे राजहंस! भवता यत्र कमलनालानां समूहं खादितम् (i) ……………. च पीतानि एवं कमलानि अपि सेवितानि। त्वमेव वद तस्य (ii) ……………. केन प्रकारेण प्रत्युकारं करिष्यसि अर्थात् स्व जन्मनः देशस्य जातेः, धर्मस्य (iii) ……………… च केन रूपेण ऋणम् अवतारयिष्यसि अतः एतेषां सर्वेषां (iv) ………………. कुरु।
मञ्जूषा- सम्मान, जलानि, सरोवरस्य, संस्कृतेः

Answer

Answer: (i) जलानि (ii) सरोवरस्य (iii) संस्कृतेः (iv) सम्मानं


तोयैरल्पैरपि करुणया भीमभानौ निदाघे,
मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां,
धारासारानपि विकिरता विश्वतो वारिदेन॥

भावार्थ:- अर्थात् हे मालाकार! त्वम् भीषणतया ग्रीष्मौ (i) …………… तपति सति अल्पेन जलेन या सेवा भवता अस्य (ii) …………….. पोषणार्थं कृता किं सा एव सेवा (iii) ……………… परितः धारासु प्रवाहतै जलैः वारिदेन अपि कर्तुं सक्षमेन भूयते? अर्थात् मानवजीवनं केवलं सुखैरेव न प्रवर्धते तदर्धं दुःखमपि तथैव अनिवार्यं वर्तते यथा सुखम् अस्ति। सुखदुःखम् तु मानवजीवनस्य द्वौ (iv) ………….. इव वर्तते?
मञ्जूषा- वृक्षस्य, स्कन्धौ, भानौ, वर्षाकाले

Answer

Answer: (i) भानौ (ii) वृक्षस्य (iii) वर्षाकाले (iv) स्कन्धौ


आपेदिरेऽम्बरपथं परितः पतङ्गाः,
भृङ्गा रसालमुकुलानि समाश्रयन्ते।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमा गतिमभ्युपैतु॥

भावार्थ:- खगा: ग्रीष्मौ सर्वतः आकाशमार्ग (i) …………… भ्रमराः अपि आम्र मञ्जरी: आश्रिताः अभवन्। अतः सरोवरे (ii) ……………… भवति सति मत्स्याः निराश्रिताः भूत्वा कुत्र (iii) ……………… ग्रहीष्यन्ति अर्थात् कुत्रापिन। मत्स्याः स्वाश्रयस्य सरोवरस्य दुर्दिने आगते अपि ते (iv) …………….. कदापि न त्यक्ष्यन्ति। एतदेव सन्मित्रस्य लक्षणं वर्तते।
मञ्जूषा- प्राप्नुवन्ति, तम्, निर्जले, आश्रयम्

Answer

Answer: (i) प्राप्नुवन्ति (ii) निर्जले (iii) आश्रयम् (iv) तम्


एक एव खगो मानी वने वसति चातकः।
पिपासितो वा म्रियते याचते वा पुरन्दरम्॥

भावार्थ:- स्वाभिमानी खगः (i) ……………… वने उषित्वा (ii) ……………… एव मृत्युम् आ. प्नोति अथवा मेघं स्वात्मने वर्षायाः जलं याचते। सः कदापि (iii) …………….. जलं न पिबति। एवमेव स्वाभिमानी जनोऽपि स्व सम्मानेन मर्यादितेन जीवनेन सह एव जीवनं याषयन्ति ते कदापि स्वजीवनाय (iv) …………….. मर्यादाञ्च न त्यजन्ति। अनेन गुणेनैव ते अमराः भवन्ति।
मञ्जूषा- आत्मसम्मानं, धरायाः, चातकः, पिपासितः

Answer

Answer: (i) चातक: (ii) पिपासितः (iii) धरायाः (iv) आत्मसम्मानं


आश्वास्य पर्वतकुलं तपनोष्णतप्त
मुद्दामदावविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः॥

भावार्थ:- सूर्यस्य प्रकाशेन संतप्तं (i) ……………. तृप्तं कृत्वा, उच्चैः वृक्षैः रहितानि वनानि च तृप्तानि कृत्वा नाना नदीः शतानि (ii) …………….. पूरयित्वा अपि यदि जलदः रिक्तोऽवर्तन एन्ततु तस्य उदारता (iii) ………….. वा भवति। एवमेव सज्जनाः अपि महादानीनाः इव सर्वस्वं दानं कृत्वा (iv) ………….. भवन्ति। इयमेव तेषां शोभा वर्तते।
मञ्जूषा- शोभा, पर्वतसमूह, अतृप्ताः, नदान्।

Answer

Answer: (i) पर्वतसमूह (ii) नदान् (iii) शोभा (iv) अतृप्ताः


रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता
‘मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः।।

भावार्थ:- अस्य भावोऽस्ति यत् हे मित्र चातक! सावधानं भूत्वा मम वचांसि (i) ……………… अवधीर्यताम् यतः गगने अनेके बद्दलाः सन्ति परन्तु तेषु सर्वे स्व (ii) ………………. धरां न तर्पयन्ति अपितु केचिदेव वर्षन्ति केचित्त वृथा एव गर्जन्ति। अतः यं यं बद्दलं त्वं पश्यसि तस्य-तस्य (सर्वस्य) अग्रे स्वदीनं वचः मा (iii) ……………. एवमेव संसारेऽपि अनेके जन सन्ति ते सर्वे स्वमित्राणां सहाय्यं न कुर्वन्ति अतः (iv) …………. अग्रे स्वदुःखानि प्रकटानि न कुर्युः अनेन आत्मसम्मान समाप्यते जर्गात हास्यं च भवति।
मञ्जूषा- ब्रूहि, सर्वेषाम्, श्रुत्वा, वर्षाभिः

Answer

Answer: (i) श्रुत्वा (ii) वर्षाभिः (iii) ब्रूहि (iv) सर्वेषाम्


निम्नवाक्येषु रेखाकितानां पदानां स्थानेषु प्रश्नवाचकं पदं चित्वा लिखत

Question 1.
एकेन एव राजहंसेन सरसः या शोभा भवेत्।
(i) कः
(ii) कति
(iii) कस्य
(iv) किम्

Answer

Answer: (iii) कस्य


Question 2.
न सा परितः तीरवासिना बकसहस्रेण भवेत्।
(i) कथम्
(ii) केण
(iii) केन
(iv) कीदृशेण

Answer

Answer: (iii) केन


Question 3.
हे राजहंस! भवता मृणालपटली भुक्ता।
(i) का
(ii) काः
(iii) कः
(iv) किम्

Answer

Answer: (i) का


Question 4.
एवं नलिनानि अनेकानि निषेविहानि।
(i) के
(ii) कति
(iii) किम्
(iv) कानि

Answer

Answer: (iv) कानि


Question 5.
तस्य सरोवरस्य केन कृत्येन कृतोपकारः त्वं भवितासि?
(i) कीदृशः
(ii) कः
(iii) का
(iv) कथम्

Answer

Answer: (i) कीदृशः


Question 6.
मालाकार! भवता करुणया तरोः अस्य तोयैरल्पैरपि पुष्टिः व्यरचि।
(i) का
(ii) कः
(iii) केन
(iv) काः

Answer

Answer: (iii) केन


Question 7.
भवता भीमभानौ निदाघे करुणया पुष्टिः व्यरचि।
(i) कदा
(ii) कीदृशः
(iii) कौ
(iv) कीदृशौ

Answer

Answer: (i) कदा


Question 8.
प्रावृषेण्येन वारिदेन वाराम् विश्वतः इह जनयितुं शक्या।
(i) केन
(ii) कीदृशेन
(iii) कथम्
(iv) कदा

Answer

Answer: (ii) कीदृशेन


Question 9.
पतङ्गाः परितः अम्बरपथं आपेदिरे।
(i) के
(ii) काः
(iii) कः
(iv) का

Answer

Answer: (i) के


Question 10.
भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
(i) किम्
(ii) कानि
(iii) के
(iv) कति

Answer

Answer: (ii) कानि


Question 11.
सरः त्वयि दीनदीनः सङ्कोचम् अञ्चति।
(i) कति
(ii) कानि
(iii) कस्मै
(iv) कस्मिन्

Answer

Answer: (iv) कस्मिन्


Question 12.
मीनः नु कतमा गतिम् अभ्युपैतु।
(i) का
(ii) कः
(iii) के
(iv) किम्

Answer

Answer: (ii) कः


Question 13.
चातक: मानी खगः भवति।
(i) कीदृशः
(ii) कीदृशी
(iii) कीदृशम्
(iv) कीदृशा

Answer

Answer: (i) कीदृशः


Question 14.
एकः चातकः वने वसति।
(i) कः
(ii) का
(iii) कति
(iv) किम्

Answer

Answer: (iii) कति


Question 15.
चातक: पिपासितः एव म्रियते।
(i) कीदृशः
(ii) कीदृशी
(iii) कीदृशम्
(iv) कीदृशाः

Answer

Answer: (i) कीदृशः


रेखाकितानां पदानां स्थाने प्रश्नवाचकं पदं लिखत

(क) परं धरायाः जलं न पिबति।
(ख) सः चातकः पुरन्दरं जलं याचते।
(ग) तपनोष्णतप्तम् पर्वतकुलम आश्वास्य।
(घ) जलदः रिक्तः भवति।
(ङ) उद्दामदावविधुराणि काननानि च आश्वास्यपि जलदः रिक्तः भवति।
(च) सा एव तस्य जलदस्य उत्तमा श्रीः वर्तते।
(छ) चातक! सावधानमनसा क्षणं श्रूयताम्।
(ज) गगने बहवः अम्भोदाः सन्ति।
(झ) परं सर्वेऽपि एतादृशाः नसन्ति।
(ञ) केचिद् वृष्टिभिः वसुधाम् आद्रियन्ते।
(ट) केचिद् वृथा गर्जन्ति।
(ठ) त्वं यं यं पश्यसि।
(ड) तस्य तस्य पुस्तः दीनं वचः मा ब्रूहि।
(ढ) भवता अस्य तरोः या पुष्टिः कृता।
(ण) भृङ्गाः रसालस्य मुकुलानि समाश्रयन्ते।

Answer

Answer:
(क) कस्याः
(ख) कम्
(ग) कम्
(घ) कीदृशः
(ङ) कः
(च) का
(छ) कथम् केन
(ज) कति
(झ) के
(ञ) काभिः
(ट) कथम्
(ठ) कः
(ड) किम्
(ढ) कस्य
(ण) कस्य


निम्न वाक्येषु रेखाकितानां पदानां पर्यायं लिखत

Question 1.
एकेन राजहंसेन या शोभा सरसः भवेत्।
(i) नद्याः
(ii) सागरस्य
(iii) तडागस्य
(iv) कूपस्य

Answer

Answer: (iii) तडागस्य


Question 2.
भवता मृणालपटली भुकता।
(i) कमलस्य
(ii) फलस्य
(iii) पुष्पस्य
(iv) पादपय

Answer

Answer: (i) कमलस्य


Question 3.
निपीतानि अम्बूनि भवता।
(i) जलम्
(ii) जलानि
(iii) रसानि
(iv) फलानि

Answer

Answer: (ii) जलानि


Question 4.
भवता या अस्य तरोः पुष्टिः व्यरचि।
(i) बीजस्य
(ii) पादपस्य
(iii) वृक्षस्य
(iv) छायायाः

Answer

Answer: (iii) वृक्षस्य


Question 5.
धारासारानपि विकिरता विश्वतो वारिदेन
(i) देहेन
(ii) वृक्षण
(iii) जलेन
(iv) मेघेन

Answer

Answer: (iv) मेघेन


Question 6.
पतङ्गा परितः अम्बरपथम् आपेदिरे।
(i) जनाः
(ii) खगाः
(iii) पशवः
(iv) कीटाः

Answer

Answer: (ii) खगाः


Question 7.
भृङ्गा रसालमुकुलानि समाश्रयन्ते।
(i) खगाः
(ii) जनाः
(iii) पशवः
(iv) भ्रमराः

Answer

Answer: (iv) भ्रमराः


Question 8.
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो
(i) आश्रितः
(ii) निराश्रितः
(iii) आश्रयः
(iv) निराश्रयः

Answer

Answer: (ii) निराश्रितः


Question 9.
एकः एव खगः मानी वने वसति चातकः।
(i) मानयुक्तः
(ii) सम्मानम्
(iii) अभिमानी
(iv) प्रमाणी

Answer

Answer: (i) मानयुक्तः


Question 10.
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः
(i) मानम्
(ii) स्वाभिमानम्
(iii) शोभा
(iv) अभिमानम्

Answer

Answer: (iii) शोभा


निम्नपदानां विपर्ययपदानि लिखतपदानि विपर्ययाः

पदानि – विपर्ययाः
(क) मध्यवासिना – अम्बरमथम्
(ख) भुक्ता – मानी
(ग) तरोः – करुणया
(घ) धरापथम् – दीनदीनः
(ङ) तृप्तः – काननानि
(च) धरायाम् – तीरवासिना
(छ) निर्दयतया – सङ्कोचम्
(ज) जीवति (जायते) – सरः
(झ) पशवः – गगने
(ञ) अपमानम् – पीता
(ट) आश्रयः – पिपासितः
(ठ) अभिमानी – श्री.
(ड) नगराणि – पादयस्य
(ढ) सागरः – पादयस्य
(ण) विस्तारम् – पतङ्गाः

Answer

Answer:
पदानि – विपर्ययाः
(क) मध्यवासिना – तीरवासिना
(ख) भुक्ता – पीता
(ग) तरोः – पादयस्य
(घ) धरापथम् – अम्बरपथम्
(ङ) तृप्तः – पिपासितः
(च) धरायाम् – गगने
(छ) निर्दयतया – करुणया
(ज) जीवति (जायते) – म्रियते
(झ) पशवः – पतङ्गाः
(ञ) अपमानम् – श्री.
(ट) आश्रयः – दीनदीनः
(ठ) अभिमानी – मानी
(ड) नगराणि – काननानि
(ढ) सागरः – सरः
(ण) विस्तारम् – सङ्कोचम्


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Chapter 12 अनयोक्त्यः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit अनयोक्त्यः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

Leave a Comment