CBSE Class 9 Sanskrit Sample Paper Set 1

We have given detailed NCERT Solutions for Class 9 Sanskrit come in handy for quickly completing your homework.

CBSE Class 9 Sanskrit Sample Paper Set 1

समयः होरात्रयम्
पूर्णाङ्काः 80

निर्देशा:

  1. प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
    • खण्डः (क) अपठित-अवबोधनम् – (10 अङ्काः)
    • खण्डः (ख) रचनात्मकं-कार्यम् – (15 अङ्काः)
    • खण्डः (ग) अनुप्रयुक्त-व्याकरणम् – (25 अङ्काः)
    • खण्डः (घ) पठित-अवबोधनम् – (30 अङ्काः)
  2. सर्व प्रश्नाः अनिवार्याः।
  3. प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
  4. प्रश्नसंख्या अवश्यं लेखनीया।
  5. उत्तराणि संस्कृतेन एव लेखनीयानि।

खण्डः ‘क’
अपठित-अवबोधनम् (10 अङ्काः)

प्रश्न 1.
अधोलिखितं अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

प्राचीनकाले स्त्रीशिक्षायाः अतीव महत्त्वमासीत्। यवनशासकानां शासनकाले तैः स्त्रीणां शिक्षा परिसमाप्ता। आङ्गलीयानां शासनकाले भारतीयाः उच्चशिक्षायै विदेशं अगच्छन्। तत्रत्यानां नारीणां सर्वतोमुखीम् उन्नतिं विलोक्य ते विस्मिताः आसन्। महान्समाजसुधारकः राजाराममोहनरायः स्त्रीशिक्षायाः प्रबलसमर्थकः आसीत्। अस्माकं धर्मसुधारकैः स्त्रीशिक्षायै अनेकाः संस्थाः स्थापिताः यासु सहस्रशः कन्याः शिक्षाम् अलभन्त।

प्रश्ना:
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) स्त्रीणां शिक्षा कैः परिसमाप्ता?
(ii) स्त्रीशिक्षायाः प्रबलसमर्थकः कः आसीत्?

II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) धर्मसुधारकैः स्त्रीशिक्षायै किं कृतम्?
(ii) भारतीयाः किमर्थं विदेशं अगच्छन्?

III. निर्देशानुसारम् उत्तरत- (1 × 3 = 3)
(i) ‘पुरा’ इति पदस्य समानार्थकं पदं किं प्रयुक्तम्?
(क) अतीव
(ख) तत्र
(ग) महत्त्वं
(घ) प्राचीनकाले

(ii) ‘उन्नति’ इति पदस्य विशेषणम् किम्?
(क) सर्वतोमुखीम्
(ख) नारीणां
(ग) तत्रत्यानां
(घ) विस्मिताः

(iii) ‘यासु’ इति सर्वनामपदं काभ्यः प्रयुक्तम्?
(क) संस्थाः
(ख) संस्थाभ्यः
(ग) स्थापिताः
(घ) अनेकाः

IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (1 × 1 = 1)

खण्डः ‘ख’
रचनात्मकं लेखनम् (15 अङ्काः)

प्रश्न 2.
भवान् प्राचेतस्। स्वकाश्मीरयात्रायाः वर्णनं कुर्वता मित्रं ऋतेशं प्रति लिखिते अस्मिन् पत्रे मञ्जूषातः पदानि चित्वा रिक्तस्थानानि सम्पूर्ण पत्रं पुनः लिखत- (10 × ½ = 5)

77, बादामी उद्यानम्,
_____(i)_____

प्रिय मित्र ऋतेश!
_____(ii)_____

अत्र कुशलं तत्रास्तु। भगवतः कृपया अद्य वयं सर्वे सकुशलं श्रीनगरं समागताः। अस्माकं यात्रा अतीव _____(iii)_____ आसीत्। परह्यः रात्रौ दिल्लीतः ‘जम्मू एक्सप्रेस’ द्वारा प्राचलाम। _____(iv)_____ प्रातः जम्मूनगरं प्राप्य बसयानद्वारा श्रीनगरं प्रति प्राचलाम। सर्वत्र हरीतिमायाः साम्राज्यम् आसीत्। आकाशं तु _____(v)_____ एवासीत्। प्रातः श्रीनगरे अस्माकं स्वागतं _____(vi)_____ एवाभवत्। अस्य प्रदेशस्य अद्भुत-सौन्दर्यं दृष्ट्वा वयम् विस्मिताः। सत्यम् यथाश्रुतम् तस्मादपि _____(vii)_____ अस्ति इदं प्रदेशम्। अस्माकं वासः लालचौकस्य समीपे एव _____(viii)_____ यात्रिनिवासे अस्ति। अद्य विश्रामं कृत्वा श्वः एव कार्यक्रमानुसारम् प्रदेशस्य विभिन्न-दर्शनीयस्थानान् द्रष्टुम् गमिष्यामः। गृहे _____(ix)_____ मम प्रणामाः। अनुजाय च स्नेहम्।

तव मित्रम्,
_____(x)_____

मञ्जूषा – एकस्मिन्, प्राचेतस्, हिमवृष्ट्या, ह्यः, सस्नेह नमस्ते, दिल्लीतः, मातृपितृचरणयोः, सुन्दरतरम्, मेघेराच्छन्नम्, आनन्ददायिनी.

प्रश्न 3.
चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानाम् सहायतया पञ्चवाक्यानि संस्कृते लिखत। (1 × 5 = 5)
CBSE Class 9 Sanskrit Sample Paper Set 1 Q3

मञ्जूषा – अभिवक्तारौ, द्वौ विवादमानौपक्षौ, एकः लिपिकः, ध्यानेन, श्रावयति, न्यायाधीशः, न्यायालस्य, स्वपक्षं, सप्यक् विचार्य, आकर्णयति।

अथवा

मञ्जूषायां प्रदत्तशब्दानां सहायतया “मम कक्षा” इति विषयम् अधिकृत्य संस्कृतभाषायां पञ्चवाक्यानि लिखत।

मञ्जूषा – मित्राणि, अध्यापकाः, अध्यापिकाः, मम, प्रियः, छात्राः, श्याम-फलकम्, कक्षा-कार्यम्, स्वच्छम्, प्रतिदिनम्, मित्रस्य नाम, नवमी कक्षा, आसन्दिकाः, आनन्दप्रदम्।

प्रश्न 4.
अधोलिखितानां वाक्यानाम् संस्कृतेन अनुवादः क्रियताम्- (1 × 5 = 5)

  1. किसी वन में अनेक पशु रहते थे।
  2. पशुओं का राजा शेर रोगपीडित था।
  3. शृगाल ने चिकित्सा का उपाय बताया।
  4. रोग की शान्ति ऊँट के रक्तपान से होगी।
  5. शेर ने उसका रक्तपान किया।

खण्डः ‘ग’
अनुप्रयुक्त-व्याकरणम् (25 अङ्काः)

प्रश्न 5.
रेखांकितपदेषु सन्धिच्छेदं/सन्धिं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (1 × 4 = 4)

(i) वाक् + ईशः मम मित्रम् अस्ति।
(क) वागीशः
(ख) वाकीशः
(ग) वागिशः
(घ) वाकिशः

(ii) दानेन तुल्यो निधिरस्ति नान्यः।
(क) निधिर् + स्ति
(ख) निधिः + अस्ति
(ग) निधि + ति
(घ) निधिर् + ति

(iii) सदा + एव परिश्रमः क्रियताम्।
(क) सदाएव
(ख) सदेव
(ग) सदैव
(घ) सदीव

(iv) साम्प्रतं वदतु कोऽहम्?
(क) कः + अहम्
(ख) को + हम्
(ग) कः + हम्
(घ) का + अहम्

प्रश्न 6.
कोष्ठके प्रदत्तनिर्देशानुसारं समुचितविभक्तिपदेन रिक्तस्थानानि पूरयत- (1 × 4 = 4)
(i) _____ सरोवरे नीलकमलानि सन्ति। (इदम् – सप्तमी)
(क) अस्मिन्
(ख) अस्य
(ग) अस्यां
(घ) अस्याः

(ii) _____ पिता अध्यापकः अस्ति। (रमा – षष्ठी)
(क) रमया
(ख) रमायाः
(ग) रमायै
(घ) रमा

(iii) _____ वेत्ता वैज्ञानिकाः भवन्ति।
(क) विज्ञानः
(ख) विज्ञाने
(ग) विज्ञानं
(घ) विज्ञानस्य

(iv) वृक्षस्य शाखायाम् ________ खगौ अतिष्ठताम्। (द्वि)
(क) द्वि
(ख) द्वौ
(ग) द्वयः
(घ) द्वे

प्रश्न 7.
कोष्ठके प्रदत्तनिर्देशानुसारं उचित-धातु-रूपैः वाक्यानि पूरयत- (1 × 4 = 4)

  1. सर्वे सुखिनः ________। (भू – लोट् लकारे) (भवतु / भवन्तु / भव)
  2. छात्राः ________। (पठ् – लट् लकारे) (पठति / पठतु / पठन्ति)
  3. अद्य मम पिता आगतः, सः श्वः ________। (गम् – लृट् लकारे) (गच्छति / गमिष्यति / गच्छतु)
  4. वयं सदैव सुवीराः ________। (भू – विधिलिङ) (भवेव / भवेम / भवेयम्)

प्रश्न 8.
प्रदत्तविकल्पेभ्यः उचितपदं चित्वा रिक्तस्थानानि पूरयत- (1 × 4 = 4)

  1. धनिकः ________ वस्त्राणि यच्छति। (याचक) (याचकाय / याचकाः / याचकस्य / याचकेन)
  2. पुत्री ________ सह आपणं गच्छति। (मातृ) (मात्रा / मात्रे / मातु / माता)
  3. ________ परितः परिखा अस्ति। (देवालय) (देवालय / देवालयाः / देवालयस्य / देवालयः)
  4. अलं ________। (कोलाहल) (कोलाहलेन / कोलाहल: / कोलाहलं / कोलाहल)

प्रश्न 9.
अधोलिखितवाक्येषु कोष्ठके प्रदतौ प्रकृतिप्रत्ययौ संयोज्य प्रदत्तविल्पेभ्यो उचितपदं चित्वां रिक्तस्थानपूर्ति कृत्वा वाक्यानि पुनः लिखत- (1 × 4 = 4)

  1. शैलेशः ह्यः आगरा नगरम् ________ (गम् + तुमुन्) आगच्छत्।
  2. समर्थः कन्दुकं ________ (नी + क्त्वा) धावति।
  3. कन्या नवीनानि वस्त्राणि ________ (प्र + आप् + ल्यप्) प्रसीदति।
  4. माता सुतायै भोजनं ________ (दा + क्तवतु)।

प्रश्न 10.
अधोलिखितवाक्येषु रिक्तस्थानानि संख्यावाचकपदैः पूरयत- (1 × 3 = 3)

  1. अस्मिन उपवने ________ (20) आम्रवृक्षाः सन्ति।
  2. उद्याने ________ (45) अशोकवृक्षाः सन्ति।
  3. मालाकारः ________ (25) निम्बवृक्षाः अपि आरोपयति।

प्रश्न 11.
अधोलिखितेषु पदेषु उपसर्गान् धातून् च पृथक् कृत्वा लिखत- (½ × 4 = 2)

निष्कारणम्, अनुगच्छति, अतिवादः, सुपुत्रेण

खण्डः ‘घ’
पठित-अवबोधनम् (30 अङ्काः)

प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत- (5)
आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः। स च विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्-

यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥

तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः। ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरम् आगत्य तं श्रेष्ठिनम् अवदत्-” भोः श्रेष्ठिन्! दीयतां मे सा निक्षेपतुला।” सोऽवदत्-” भोः! नास्ति सा, त्वदीया तुला मूषकैः भक्षिता” इति।

प्रश्ना:
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) लौहतुला कैः भक्षिता?
(ii) जीर्णधनः कस्य गृहे तुलाम् निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
तुला कीदृशी आसीत्?

III. निर्देशानुसारं विकल्पेभ्यः उचितं उत्तरम् चित्वा लिखत- (1 × 3 = 3)
(i) ‘तां च कस्यचित् गृहे…’ अत्र ‘ता’ सर्वनामपदं कस्यै प्रयुक्तम्?
(क) वणिकपुत्राय
(ख) जीर्णधनाय
(ग) तुलायै
(घ) तुलायाः

(ii) ‘स्वपराक्रमेण’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) उपार्जिता
(ख) अधिष्ठाने
(ग) स्ववीर्यतः
(घ) श्रेष्ठिनः

(iii) ‘प्रस्थितः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) गृहे
(ख) श्रेष्ठिनः
(ग) देशान्तरं
(घ) कृत्वा

प्रश्न 13.
अधोलिखितं पद्याशं पठित्वा प्रश्नान् उत्तरत- (5)

ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः।
वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम्।।

प्रश्ना:
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) शुभां गिरम् कः व्याजहार?
(ii) कः वनस्पतिगतः आसीत्?

II. पूर्णवाक्येन उत्तरत- (1 × 1 = 1)
खगोत्तमः कीदृशः आसीत्?

III. शुद्धम् उत्तरं चित्वा लिखत- (1 × 3 = 3)
(i) ‘व्याजहार’ इति पदस्य कः अर्थः?
(क) अगच्छत्
(ख) अपृच्छत्
(ग) अकथयत्
(घ) अधावत्

(ii) ‘गिरम्’ इति पदस्य विशेषणपदम् किम्?
(क) शुभा
(ख) ततः
(ग) गतः
(घ) श्रीमान्

(iii) ‘व्याजहार’ इति क्रिया पदस्य कर्तृपदम् किम्?
(क) खगोत्तमः
(ख) रावणः
(ग) सीता
(घ) शुभां

प्रश्न 14.
अधोलिखितं नाट्यांशं पठित्वा प्रश्नान् उत्तरत्- (5)
(मासानन्तरं सन्ध्याकालः। एकत्र रिक्ताः नूतनघटाः सन्ति। दुग्धक्रेतारः अन्ये च ग्रामवासिनः अपरत्र आसीनाः।)
चन्दनः – (धेनुं प्रणम्य, मङ्गलाचरणं विधाय, मल्लिकाम् आह्वयति) मल्लिके! सत्वरम् आगच्छ।
मल्लिका – आयामि नाथ! दोहनम् आरभस्व तावत्।
चन्दनः – (यदा धेनोः समीपं गत्वा दोग्धुम् इच्छति, तदा धेनुः पृष्ठपादेन प्रहरति। चन्दनश्च पात्रेण सह पतति) नन्दिनि! दुग्धं देहि। किं जातं ते? (पुनः प्रयासं करोति।)

प्रश्ना:
I. एकपदेन उत्तरत- (½ × 2 = 1)
(i) मङ्गलाचरणं कः करोति?
(ii) नूतनघटाः कीदृशाः सन्ति?

II. पूर्णवाक्येन उत्तरत- (1 × 2 = 2)
यदा चन्दनः दोग्धुम् इच्छति तदा किम् भवति?

III. यथानिर्देशं उत्तरत- (½ × 2 = 2)
(i) ‘विधाय’ इति पदस्य कः अर्थः?
(क) अवगत्य
(ख) कृत्वा
(ग) प्राप्य
(घ) आगतः

(ii) ‘नन्दिनि! दुग्धं देहि।’ अत्र क्रियापदं किम्?
(क) दुग्धम्
(ख) नन्दिनि
(ग) देहि
(घ) दुग्धं देहि

(iii) अत्र ‘ते’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(क) धेनोः
(ख) मल्लिकायै
(ग) धेनवे
(घ) मल्लिका

प्रश्न 15.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4)
(i) सरितः निर्मलं जलं यच्छन्ति।
(ii) खगाछिपः रावणस्य गात्रे व्रणान् अकरोत्।
(iii) स्वर्णकाकः तया पूर्वं न दृष्टः।
(iv) खलानाम् मैत्री आरम्भगुर्वी भवति।

प्रश्न 16.
अधोलिखितश्लोकयोः अन्वयं मञ्जूषायाः साहाय्येन पूरयत। (½ × 8 = 4)

(क) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता।।

अन्वयः – सर्वे _____(i)_____ प्रियवाक्यप्रदानेन _____(ii)_____। तस्माद् तत् _____(iii)_____ वक्तव्यं वचने _____(iv)_____ दरिद्रता।

(ख) सुविचार्य विधातव्यं कार्यं कल्याणकाक्षिणा।
यः करोत्यविचार्यैतत् स विषीदति मानवः।।

अन्वयः – कल्याणकाङ्क्षिणः कार्यं _____(i)_____ विधातव्यम्। यः _____(ii)_____ एतत् _____(iii)_____ करोति _____(iv)_____ विषीदति।

अथवा

अधोलिखितस्य श्लोकस्य भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरतय- (4 × 1 = 4)

गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः।।

भावार्थ: – गुणा _____(i)_____ गुणा एव भवन्ति परम् ते _____(ii)_____ गुणहीनं प्राप्य _____(iii)_____ भवन्ति यथा निर्मलनद्यः समुद्रं प्राप्य _____(iv)_____ भवन्ति।

मञ्जूषा – गुणिषु, अपेयाः, गुणाः, दोषाः

प्रश्न 17.
अधोलिखितानि वाक्यानि कथाक्रमेण संयोज्य लिखत- (½ × 8 = 4)

  1. नैतादृशः स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः।
  2. पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्।
  3. स्वर्णसोपानेन सा स्वर्ण-भवनम् आरोहत।
  4. ताम्रस्थाल्यां एव अहम् निर्धना भोजनं करिष्यामि।
  5. तस्यां महार्हाणि हीरकाणि विलोक्य सा प्रहर्षिता।
  6. नैतादृक् स्वादु भोजनम् अद्यावधि बालिका खादितवती।
  7. लुब्धया बालिकया लोभस्य फलं प्राप्तम्।
  8. गर्वितया बालिकया प्रोक्तम्-स्वर्णमयेन सोपानेन अहम् आगच्छामि।

प्रश्न 18.
प्रसङ्गानुसारम् शुद्धम् अर्थं चित्वा लिखत- (1 × 3 = 3)
(i) तपोदत्तः सर्वैः कुटुम्बिभिः गर्हितः अभवत्।
(क) निन्दितः
(ख) गृहीतः
(ग) गच्छतः
(घ) गृहीतं

(ii) मातुल! यामि अधुना।
(क) खादामि
(ख) गच्छामि।
(ग) यच्छामि
(घ) धावामि

(iii) अरिन्दमः दशवामबाहून् व्यपाहरत्।
(क) उत्खातवान्
(ख) अपहरत्
(ग) व्यापादितम्
(घ) विदीर्णम्


Leave a Comment